व्याख्योपाख्यादिसिद्धा ,
प्रतिजनसुहिता यासमे वै समाख्या,
प्रख्याख्याता प्रबुद्धा,
नवनिधिरुचिरा यास्त्यभिख्या पराख्या ।
विख्याता दिक्षु दिक्षु ,
परमरसमयी कल्पिताकल्पिता वा ,
कामाख्या सा भवानी ,
ललितकवितया ख्यातिमाख्यातु नव्याम्।।
सिद्धासिद्धाथवेयं ,
करुणरसभरा हृत्सु भावानुविद्धा ,
स्वृद्धा संपत्समृद्धा ,
तरलितनयना सात्विकीष्टिप्रवृद्धा ।
अद्धा धातादिदेवैः ,
प्रतिदिनमनिशं मंत्रतंत्रैः समिद्धा ,
वृद्धा ज्ञानप्रवृद्धा ,
विरतिरतिकरी कामदा स्याद्विवृद्धा ।।
हं हो हासप्रभासा ,
जनजनवदने या समुल्लासरूपा ,
साशा साशीर्वचोभि
रनुपमकरुणासारमाविष्करोति ।
भासा तस्याः प्रभावा
दतुलितविभवा भाषते रम्यभाषा ,
कामांशो कामरूपः ,
कलयतु कुशलं नोऽत्र कामाक्षिकायाः ।।
गाहन्तां बुद्धयो नः,
प्रविशदसरणौ धर्मकर्मप्रवृद्धाः ,
चित्तं चाञ्चल्यरिक्तं ,
प्रसरतु पदयोः मातुरेव प्रसन्नम् ।
जायन्तां नो कुलेऽपि ,
प्रखरतरतपः शीलसंपत्तियुक्ताः ,
मुक्ता द्वन्द्वैर्विमुक्ताः ,
सततमवहिता सज्जनाः सन्ततौ कौ ।।
इच्छारामोऽभिरामो ,
नवरसरुचिरां निर्मितिं संदधातु ।।
सीतारामः प्रभाते ,
दिशतु नवनवं भावराशिं प्रसन्नः ।
कामोऽवामोऽस्तु वामो
प्रमथनकरणो मानसं भक्तकानाम्।
ह्रीलं श्रीलं सुशीलं
वितरतु शमनं सत्कुटुम्बे सतां तत्।।
.
thanks for a lovly feedback