पूजा में पशुओं की बलि चढ़ाना क्या शास्त्र सम्मत है ? #पशुबलि, #पशुबलि_निषेध, #कर्मकांड,
पूजा में पशु बलि |
भगवान् शंकर ने भगवती से कहा कि मैंने सुना है कि आप पशुओं की बलि मांस भी ग्रहण करती हैं ?
देवी शिव के ऐसे कठोर वचन सुनकर बहुत भयभीत हो गई और बोली —देव मैं ऐसा बिल्कुल नहीं चाहती हूं, बल्कि —
१. जो ऐसा करते हैं वे घोर नरक में जाते हैं --
मदर्थे शिव ! कुर्व्वन्ति तामसा जीवघातनम् ।
आकल्पकोटिनिरये तेषां वासो न संशयः ॥
२. पशुहिंसा के करने वाले,करवाने वाले,अनुमोदन करने वाले सब नरक में गिरते हैं —
हन्ता कर्त्ता तथोत्सर्गकर्त्ता धर्त्ता तथैव च ।
तुल्या भवन्ति सर्व्वे ते ध्रुवं नरकगामिनः ॥
३. जो देवता का नाम लेकर खुद खाने का लालची ऐसा करता है वह नरक में जाता है —
देवतान्तरमन्नामव्याजेन स्वेच्छया तथा ।
हत्वा जीवांश्च यो भक्षेत् नित्यं नरकमाप्नुयात् ॥
४. उसके परिवार, सम्पत्ति का मैं शीघ्र नाश कर देती हूं —
हन्त्यन्यान्विविधान्जीवान्कुर्य्यान्मन्नामशङ्कर!॥
तद्राज्यवंशसम्पत्तिज्ञातिदारादिसम्पदाम् ।
अचिराद्वै भवेन्नाशो मृतः स नरकं व्रजेत् ॥
५. ऐसा करने वाला चाहे इन्द्र भी क्यों न हो उसका भी पतन समझ—
यज्ञमारभ्य चेत् शक्रः कुर्य्याद्वै पशुघातनम् ।
स तदाधोगतिं गच्छेदितरेषाञ्च का कथा।।
६. वे अज्ञानी धर्मशास्त्र के तत्व को नहीं जानते हैं —
येऽज्ञानिनो मन्दधियोऽकृतार्था
भवे पशुं घ्नन्ति न धर्म्मशास्त्रम् ।
जानन्ति नाकं नरकं न मुक्तिं
गच्छन्ति घोरं नरकं नरास्ते ॥
७. सभी प्राणी विष्णु स्वरूप हैं अतः उनकी रक्षा करनी चाहिए—
सर्व्वविष्णुमयत्वेन न कुर्य्यात् प्राणिनां वधम् ॥
वधाद्रक्षति यो मर्त्यो जीवान् तत्त्वज्ञधर्म्मवित् ।
८. हे शंकर!! जो पशुबलि है वह राजसी तामसियों का कर्म है सात्विक का नहीं —
पशुहिंसा विधिर्यत्र पुराणे निगमे तथा ।
उक्तो रजस्तमोभ्यां स केवलं तमसापि वा ॥
९. सात्वत ग्रंथों में ऐसा कोई विधान नहीं है —
सात्त्वतग्रन्थे स विधिर्नैव शङ्कर ! ।
प्रवृत्तितो निवृत्तिस्तु यत्रापि सात्त्विकी क्रिया ।
जीवानुकम्पां विज्ञातुं ततो दुर्गां सदाशिवः ।
पप्रच्छ परमप्रीत्या गूढमेतद्वचो मुदा ॥
सर्व्वे विष्णुमया जीवास्त्वद्भक्ताश्च कथं शिवे ! ।
श्रुतं मया तवोद्देशे कुर्य्युः कामनया वधम् ।
महान् सन्देह इति मे ब्रूहि भद्रे ! सुनिश्चितम् ॥
शङ्करी तद्वचः श्रुत्वा शिववक्त्रविनिर्गतम् ।
भीतात्यन्तं हि ब्रह्मर्षे ! प्रत्युवाच सदाशिवम् ॥
श्रीपार्व्वत्युवाच ।
ये ममार्च्चनमित्युक्त्वा प्राणिहिंसनतत्पराः ।
तत्पूजनं ममामेध्यं यद्दोषात्तदधोगतिः ॥
मदर्थे शिव ! कुर्व्वन्ति तामसा जीवघातनम् ।
आकल्पकोटिनिरये तेषां वासो न संशयः ॥
मम नाम्नाथवा यज्ञे पशुहत्यां करोति यः ।
क्वापि तन्निष्कृतिर्नास्ति कुम्भीपाकमवाप्नुयात् ॥
दैवे पैत्रे तथात्मार्थे यः कुर्य्यात् प्राणिहिंसनम् ।
कल्पकोटिशतं शम्भो ! रौरवे स वसेत् ध्रुवम् ॥
यो मोहान्मानसैर्देहिहत्यां कुर्य्यात् सदाशिव ! ।
एकविंशतिकृत्वश्च तत्तद्योनिषु जायते ॥
यज्ञे यज्ञे पशून हत्वा कुर्य्यात् शोणितकर्द्दमम् ।
स पचेन्नरके तावद्यावल्लोमानि तस्य वै ॥
हन्ता कर्त्ता तथोत्सर्गकर्त्ता धर्त्ता तथैव च ।
तुल्या भवन्ति सर्व्वे ते ध्रुवं नरकगामिनः ॥
ममोद्देशे पशून् हत्वा सरक्तं पात्रमुत्सृजेत्।
मूढः स तु पूयोदे वसेद्यदि न संशयः ॥
देवतान्तरमन्नामव्याजेन स्वेच्छया तथा ।
हत्वा जीवांश्च यो भक्षेत् नित्यं नरकमाप्नुयात् ॥
यूपे बद्ध्वा पशून् हत्वा यः कुर्य्याद्रक्तकर्द्दमम् ।
तेन चेत् प्राप्यते स्वर्गो नरकं केन गम्यते ॥
उपदेष्टा वधे हन्ता कर्त्ता धर्त्ता च विक्रयी ।
उत्सर्गकर्त्ता जीवानां सर्व्वेषां नरकं भवेत् ॥
मध्यस्थस्य वधायापि प्राणिनां क्रयविक्रये ।
तथा द्रष्टुश्च सूनायां कुम्भीपाको भवेद्ध्रुवम् ॥
स्वयं कामाशयो भूत्वा योऽज्ञानेन विमोहितः ।
हन्त्यन्यान् विविधान् जीवान् कुर्य्यान्मन्नाम शङ्कर ! ॥
तद्राज्यवंशसम्पत्तिज्ञातिदारादिसम्पदाम् ।
अचिराद्वै भवेन्नाशो मृतः स नरकं व्रजेत् ॥
देवयज्ञे पितृश्राद्धे तथा माङ्गल्यकर्म्मणि ।
तस्यैव नरके वासो यः कुर्य्याज्जीवघातनम् ॥
मद्व्याजेन पशून् हत्वा यो भक्षेत् सह बन्धुभिः । तद्गात्रलोमसंख्याब्दैरसिपत्रवने वसेत् ॥
आवयोरन्यदेवानां नाम्ना च परकर्म्मणि ।
यः संपोष्य पशून् हन्यात् सोऽन्धतामिस्रमाप्नुयात् ॥
पशुन् हत्वा तथा त्वां मां योऽर्च्चयेन्मांसशोणितैः ।
तावत्तन्नरके वासो यावच्चन्द्रदिवाकरौ ॥
निर्व्वह्निभस्मतुल्यं तत् बहुद्रव्येण यत् कृतम् ।
यस्मिन् यज्ञे प्रभो शम्भो ! जीवहत्या भवेद् ध्रुवम् ॥
यज्ञमारभ्य चेत् शक्रः कुर्य्याद्वै पशुघातनम् ।
स तदाधोगतिं गच्छेदितरेषाञ्च का कथा ॥
आवयोः पूजनं मोहाद्ये कुर्य्युर्मांसशोणितैः ।
पतन्ति कुम्भीपाके ते भवन्ति पशवः पुनः ॥
फलकामास्तु वेदोक्तैः पशोरालभनं मखे ।
पुनस्तत्तत् फलं भुक्त्वा ये कुर्व्वन्ति पतन्त्यधः ॥
स्वर्गकामोऽश्वमेधं यः करोति निगमाज्ञया ।
तद्भोगान्ते पतेद्भूयः स जन्मानि भवार्णवे ॥
ये हताः पशवो लोकैरिह स्वार्थेषु कोविदैः ।
ते परत्र तु तान् हन्युस्तथा खड्गेन शङ्कर ! ॥
आत्मपुत्त्रकलत्रादिसुसम्पत्तिकुलेच्छया ।
यो दुरात्मा पशून् हन्यादात्मादीन् घातयेत् स तु ॥
जानन्ति नो वेदपुराणतत्त्वं
ये कर्म्मठाः पण्डितमानयुक्ताः ।
लोकाधमास्ते नरके पतन्ति
कुर्व्वन्ति मूर्खाः पशुघातनञ्चेत् ॥
येऽज्ञानिनो मन्दधियोऽकृतार्था
भवे पशुं घ्नन्ति न धर्म्मशास्त्रम् ।
जानन्ति नाकं नरकं न मुक्तिं
गच्छन्ति घोरं नरकं नरास्ते ॥
शुद्धा अकार्ष्णा न विदन्ति शाक्ता
न धर्म्ममार्गं परमार्थतत्त्वम् ।
पापं न पुण्यं पशुघातका ये
पूयोदवासो भवतीह तेषाम् ॥
जीवानुकम्पां न विदन्ति मूढा
भ्रान्ताश्च येऽसत्पथिनो न धर्म्मम् ।
स्मार्त्ता भव प्राणिवधं न कुर्य्यु-
स्ते यान्ति मर्त्त्याः खलु रौरवाख्यम् ॥
ततस्तु खलु जन्तूनां घातनं नो करिष्यति ।
शुद्धात्मा धर्म्मवान् ज्ञानी प्राणान्ते नेव मानवः ॥
यदीच्छेदात्मनः क्षेमं त्यक्त्वा ज्ञानं तदा नरः ।
जीवान् कानपि नो हन्यात् सङ्कटापन्न एव चेत् ॥
सम्पत्तौ च विपत्तौ वा परलोकेच्छुकः पुमान् ।
कदाचित् प्राणिनो हत्यां न कुर्य्यात्तत्त्ववित् सुधीः ॥
मानवो यः परत्रह तर्त्तुमिच्छेत् सदाशिव ! ।
सर्व्वविष्णुमयत्वेन न कुर्य्यात् प्राणिनां वधम् ॥
वधाद्रक्षति यो मर्त्यो जीवान् तत्त्वज्ञधर्म्मवित् ।
किं पुण्यं तस्य वक्ष्येऽहं ब्रह्माण्डं स तु रक्षति ॥
यो रक्षेत् घातनात् शम्भो ! जीवमात्रं दयापरः ।
कृष्णप्रियतमो नित्यं सर्व्वरक्षां करोति सः ॥
एकस्मिन् रक्षिते जीवे त्रैलोक्यं तेन रक्षितम् ॥
बधात् शङ्कर ! वै येन तस्माद्रक्षेन्न घातयेत् ॥
पशुहिंसा विधिर्यत्र पुराणे निगमे तथा ।
उक्तो रजस्तमोभ्यां स केवलं तमसापि वा ॥
नरकस्वर्गसेवार्थं संसाराय प्रवर्त्तितः ।
यतस्तत्कर्म्मभोगेन गमनागमनं भवेत् ॥
सत्येन सात्त्वतग्रन्थे स विधिर्नैव शङ्कर ! ।
प्रवृत्तितो निवृत्तिस्तु यत्रापि सात्त्विकी क्रिया ।
एवं नानाविधं कर्म्म पशोरालभनादिकम् ।
कामाशयः फलाकाङ्क्षी कृत्वाज्ञानेन मानवः ॥
पश्चाज्ज्ञानासिना च्छित्त्वा भ्रान्त्याशां तामसीं सदा ।
यमभीतिहरं भक्त्या यदि गोविन्दमाश्रयेत् ॥
(पाद्मोत्तरखण्ड | अध्याय १०४ तथा १०५ ।)
COMMENTS