भ्रमर गीत, भागवत, उद्धव और गोपियों का संवाद

SOORAJ KRISHNA SHASTRI
0
उद्धव और गोपियों का संवाद
 उद्धव और गोपियों का संवाद
bhramar geet bhagwat


मधुप कितवबन्धो मा स्पृशाङ्घ्रिं सपत्न्याः

कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः । 

वहतु मधुपतिस्तन्मानिनीनां प्रसादं 

यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् ॥१२॥


सकृदधरसुधां स्वां मोहिनीं  पाययित्वा 

सुमनस इव सद्यस्तत्यजेऽस्मान् भवादृक् । 

परिचरति कथं तत्पादपद्मं नु पद्मा 

ह्यपि बत हृतचेता ह्युत्तमः श्लोकजल्पैः ॥१३॥


किमिह बहु षडङ्घ्रे गायसि त्वं यदूना-

मधिपतिमगृहाणामग्रतो नः पुराणम् ।

विजयसखसखीनां गीयतां तत्प्रसङ्गः

क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः ॥१४॥


दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः 

कपटरुचिरहास भ्रूविजृम्भस्य याः स्युः ।

चरणरज उपास्ते यस्य भूतिर्वयं का

अपि च कृपणपक्षे ह्युत्तमः श्लोकशब्दः ॥१५॥


विसृज शिरसि पादं वेद्म्यहं चाटुकारैर् 

अनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् । 

स्वकृत इह विसृष्टापत्यपत्यन्यलोका 

व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन् ॥१६॥


मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा

स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम् ।

बलिमपि बलिमत्त्वावेष्टयद् ध्वाङ्गवद्यस्-

तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ॥१७॥


यदनुचरितलीलाकर्णपीयूषविप्रुट्-

सकृददनविधूतद्वन्द्वधर्मा विनष्टाः ।

सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना 

बहव इह विहङ्गा भिक्षुचयां चरन्ति ॥१८॥


वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः

कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः ।

ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र-

स्मररुज उपमन्त्रिन् भण्यतामन्यवार्तां ॥१९॥ 


प्रियसख पुनरागाः प्रेयसा प्रेषितः किं

वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग ।

नयसि कथमिहास्मान् दुस्त्यजद्वन्द्वपार्श्व

सततमुरसि सौम्य श्रीर्वधूः साकमास्ते ॥२०॥


अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते 

स्मरति स पितृगेहान् सौम्य बन्धूंश्च गोपान् ।

क्वचिदपि स कथा नः किङ्करीणां गृणीते 

भुजमगुरुसुगन्धं मूर्त्यधास्यत् कदा नु ॥२१॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top