Admin Panel
User Avatar Admin Name

कारिकावली (न्याय सिद्धांत मुक्तावली), विश्वनाथ पंचानन भट्टाचार्य

SHARE:

Karikavali, कारिकावली, विश्वनाथ पंचानन भट्टाचार्य, न्याय सिद्धांत मुक्तावली, karikavali pdf, karikavali pdf free download,

Karikavali
Karikavali


नूतनजलधररुचये गोपवधूटी टुकूलचौराय ।

तस्मै कृष्णाय नमः संसारमहीरुहस्य बीजाय ॥1॥ 

द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् ।

समवायस्तथाऽभावः पदार्थाः सप्तकीर्तिताः ॥2॥ 

क्षित्यप्तेजोमरुद्व्योमकालदिग्देहिनो मनः ।

द्रव्याण्यथ गुणा रूपं रसो गन्धस्ततः परम् ॥3॥

स्पर्शः संख्या परिमितिः पृथक्त्वं च ततः परम् । 

संयोगश्च विभागश्च परत्वं चाऽपरत्वकम् ॥4॥ 

बुद्धिः सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम् ।

द्रवत्वं स्नेहसंस्कारावदृष्टं शब्द एव च ॥5॥ 

उत्क्षेपणं ततोऽपक्षेपणमाकुञ्चनं तथा ।

प्रसारणं च गमनं कर्माण्येतानि पञ्च च ॥6॥ 

भ्रमणं रेवनं स्यन्दनोर्ध्वज्वलनमेव च ।

तिर्यग्गमनमप्यत्र गमनादेव लभ्यते ॥7॥

सामान्यं द्विविधं प्रोक्तं परं चापरमेव च ।

द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ॥8॥

परभिन्ना च या जातिः सैवाऽपरतयोच्यते ।

द्रव्यत्वादिकजातिस्तु पराऽपरतयोच्यते ॥9॥ 

व्यापकत्वात् पराऽपि स्याद् व्याप्यत्वादपराऽपि च ।

अन्त्यो नित्यद्रव्यवृत्तिर्विशेषः परिकीर्तितः ॥10॥ 

घटादीनां कपालादी द्रव्येषु गुणकर्मणोः ।

तेषु जातेश्व सम्बन्धः समवायः प्रकीर्तितः ॥11॥ 

अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः ।

प्रागाभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च ॥12॥

एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते ।

सप्तानामपि साधर्म्य ज्ञेयत्वादिकमुच्यते ॥13॥ 

द्रव्यादयः पञ्च भावा अनेके समवायिनः ।

सत्तावन्तस्त्रयस्त्वाद्या गुणादिर्निर्गुणक्रियः ॥14॥ 

सामान्यपरिहीनास्तु सर्वे जात्यादयो मताः ।

पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ॥15॥

अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता ।

कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ॥16॥ 

समवायिकारणत्वं ज्ञेयमथाऽप्यसमवायिहेतुत्वम् ।

एवं न्यायनयज्ञैस्तृतीयमुक्तं निमित्तहेतुत्वम् ॥17॥ 

यत्समवेतं कार्यं भवति ज्ञेयं तु समवायिजनकं तत् ।

तत्राऽऽसन्नं जनकं द्वितीयमाभ्यां परं तृतीयं स्यात् ॥18॥

येन सह पूर्वभावः कारणमादाय वा यस्य । 

अन्यं प्रति पूर्वभावे ज्ञाते यत्पूर्वभावविज्ञानम् ॥19॥ 

जनकं प्रति पूर्ववृत्तितामपरिज्ञानाय न यस्य गृह्यते ।

अतिरिक्तमथाऽपि यद्भवेन्नियतावश्यकपूर्वभाविनः ॥20॥ 

एते पञ्चाऽन्यथासिद्धा दण्डत्वादिकमादिमम् ।

घटादौ दण्डरूपादि द्वितीयमपि दर्शितम् ॥21॥

तृतीयं तु भवेद् व्योम कुलालजनकोऽपरः ।

पञ्चमो रासभादिः स्यादेतेष्वावश्यकस्त्वसौ ॥22॥ 

गुणकर्ममात्रवृत्ति ज्ञेयमथाऽप्यसमवायिहेतुत्वम् ॥23॥ 

अन्यत्र नित्यद्रव्येभ्य आश्रितत्वमिहोच्यते ।

क्षित्यादीनां नवानां तु द्रव्यत्वं गुणयोगिता ॥24॥ 

क्षितिर्जलं तथा तेजः पवनो मन एव च ।

पराऽपरत्वमूर्तत्वक्रियावेगाश्रया अमी ॥25॥ 

कालखात्मदिशां सर्वगतत्वं परमं महत् ।

क्षित्यादिपञ्चभूतानि चत्वारि स्पर्शवन्ति हि ॥26॥ 

द्रव्यारम्भश्चतुर्षु स्यादथाकाशशरीरिणाम् ।

अव्याप्य वृत्तिः क्षणिको विशेषगुण इष्यते ॥27॥ 

रूपद्रवत्वप्रत्यक्षयोगिनः प्रथमाखयः ।

गुरुणी द्वे रसवती द्वयोर्नैमित्तिको द्रवः ॥28॥ 

आत्मानो भूतवर्गाश्च विशेषगुणयोगिनः ।

यदुक्तं यस्य साधर्म्यं वैधर्म्यमितरस्य तत् ॥29॥

स्पर्शादयोऽष्टौ वेगाख्यः संस्कारो मरुतो गुणाः ।

स्पर्शाद्यष्टौ रूपवेगौ द्रवत्वं तेजसो गुणाः ॥30॥ 

स्पर्शादयोऽष्टौ वेगश्च गुरुत्वं च द्रवत्वकम् ।

रूपं रसस्तथा स्नेहो वारिण्येते चतुर्दश ॥31॥

स्नेहहीना गन्धयुताः क्षितावेते चतुर्दश ।

बुद्ध्यादिषट्कं संख्यादिपञ्चकं भावना तथा ॥32॥ 

धर्माधर्मो गुणा एते ह्यात्मनः स्युश्चतुर्दश ।

संख्यादिपञ्चकं कालदिशोः शब्दश्च ते च खे ॥33॥

संख्यादयः पञ्च बुद्धिरिच्छा यत्नोऽपि वेश्वरे ।

परापरत्वे संख्याद्याः पञ्च वेगश्च मानसे ॥34॥ 

तत्र क्षितिर्गन्धहेतुर्नानारूपवती मता ।

षड्विधस्तु रसस्तत्र गन्धस्तु द्विविधो मतः ॥35॥

स्पर्शस्तस्यास्तु विज्ञेयो ह्यनुष्णाशीतपाकजः ।

नित्याऽनित्या च सा द्वेधा नित्या स्यादणुलक्षणा ॥36॥ 

अनित्या तु तदन्या स्यात् सैवाऽवयवयोगिनी ।

साच त्रिधा भवेद्देहमिन्द्रियं विषयस्तथा ॥37॥

योनिजादि भवेद्देहमिन्द्रियं घ्राणलक्षणम् ।

विषयो द्यणुकादिश्च ब्रह्माण्डान्त उदाहृतः ॥38॥ 

वर्णः शुक्लो रसस्पर्शी जले मधुरशीतलौ ।

स्नेहस्तत्र द्रवत्वं तु सांसिद्धिकमुदाहृतम् ॥39॥ 

नित्यतादि प्रथमवत् किन्तु देहमयोनिजम् ।

इन्द्रियं रसनं सिन्धुर्हिमादिर्विषयो मतः ॥40॥

उष्णः स्पर्शस्तैजसस्तु स्याद्रूपं शुक्लभास्वरम् ।

नैमित्तिकं द्रवत्वं तु नित्यतादि च पूर्ववत् ॥41॥ 

इन्द्रियं नयनं वह्निस्वर्णादिर्विषयो मतः ।

अपाकजोऽनुष्णाशीतस्पर्शस्तु पवने मतः ॥42॥ 

तिर्यग्गमनवानेष ज्ञेयः स्पर्शादिलिङ्गकः ।

पूर्ववन्नियताद्युक्तं देहव्यापि त्वगिन्द्रियम् ॥43॥

प्राणादिस्तु महावायुपर्यन्तो विषयो मतः ।

आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः ॥44॥ 

इन्द्रियं तु भवेच्छोत्रमेकः सन्नप्युपाधितः ।

जनन्यां जनक: कालो जगतामाश्रयो मतः ॥45॥ 

परापरत्वधीहेतुः क्षणादिः स्यादुपाधितः ।

दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते ॥46॥ 

उपाधिभेदादेकापि प्राच्यादिव्यपदेशभाक् । 

आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् ॥47॥ 

शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः ।

तथात्वं वेन्द्रियाणामुपघाते कथं स्मृतिः ॥48॥ 

मनोऽपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेत् ।

धर्माधर्माश्रयोऽध्यक्षो विशेषगुणयोगतः ॥49॥ 

प्रवृत्याद्यनुमेयोऽयं रथगत्येव सारथिः ।

अहंकारस्याश्रयोऽयं मनोमात्रस्य गोचरः ॥50॥ 

विभुर्बुद्ध्यादिगुणवान् बुद्धिस्तुद द्विविधा मता ।

अनुभूतिः स्मृतिश्च स्यादनुभूतिश्चतुर्विधा ॥5॥ 

प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे ।

प्राणजादिप्रभेदेन प्रत्यक्षं षड्विधं मतम् ॥52॥ 

प्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः ।

तथा रसो रसज्ञायास्तथा शब्दोऽपि च श्रुतेः ॥53॥ 

उद्भूतरूपं नयनस्य गोचरो द्रव्याणि तद्धन्ति पृथक्त्वसंख्ये ।

विभागसंयोगपरापरत्व स्नेहद्रवत्वं परिमाणयुक्तम् ॥54॥ 

क्रिया जातिर्योग्यवृत्तिः समवायश्च तादृशः ।

गृह्णाति चक्षुः सम्बन्धादालोकोद्धृतरूपयोः ॥55॥ 

उद्भूतस्पर्शवद्द्रव्यं गोवरः सोऽपि च त्वचः ।

रूपाऽन्यत्चक्षुषो योग्यं रूपमत्राऽपि कारणम् ॥56॥ 

द्रव्याऽध्यक्षे त्वचो योगो मनसा ज्ञान कारणम् ।

मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः ॥57॥ 

ज्ञानं यन्निर्विकल्पाख्यं तदतीन्द्रियमिष्यते ।

महत्त्वं षड्विधे हेतुरिन्द्रियं करणं मतम् ॥58॥ 

विषयेन्द्रियसम्बन्धो व्यापारः सोऽपि षड्विधः ।

द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायतः ॥59॥ 

द्रव्येषु समवेतानां तथा तत्समवायतः ।

तत्रापि समवेतानां शब्दस्य समवायतः ॥60॥ 

तद्वृतीनां समवेतसमवायेन तु ग्रहः ।

प्रत्यक्षं समवायस्य विशेषणतया भवेत् ॥61।।

विशेषणतया तद्वद्भावानां ग्रहो भवेत् ।

यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते ॥62॥ 

अलौकिकस्तु व्यापारस्त्रिविधः परिकीर्तितः ।

सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा ॥63॥ 

आसत्तिराश्रयाणान्तु सामान्यज्ञानमिष्यते ।

तदिन्द्रियजतद्धर्मबोधसामग्र्यपेक्ष्यते ॥64॥ 

विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः ।

योगजो द्विविधः प्रोक्को युक्तयुञ्जानभेदतः ॥65॥ 

युक्तस्य सर्वदा भानं चिन्तासहकृतोऽपरः ।

व्यापरस्तु परामर्शः करणं व्याप्तिधीर्भवेत् ॥66॥ 

अनुमायां ज्ञायमानं लिङ्गं तु करणं न हि ।

अनागतादिलिङ्गेन न स्यादनुमितिस्तदा ॥67॥ 

व्याप्यस्य पक्षवृत्तित्वधी: परामर्शमुच्यते ।

व्याप्तिः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः ॥68॥ 

अथवा हेतुमन्निष्ठविरहाप्रतियोगिना ।

साध्येनहेतोरैकाधिकरण्यं व्याप्तिरुच्यते ॥69॥ 

सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते ।

स पक्षस्तत्रवृत्तित्वज्ञानादनुमितिर्भवेत् ॥70॥ 

अनैकान्तो विरुद्धश्वाऽप्यसिद्धः प्रतिपक्षतः।

कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा ॥71॥ 

आद्यः साधारणस्तु स्यादसाधारणकोऽपरः ।

तथैवाऽनुपसंहारी त्रिधाऽनैकान्तिको भवेत् ॥72॥ 

यः सपक्षे विपक्षे च भवेत्साधारणस्तु सः ।

यस्तूभयस्माद् व्यावृत्तः स चाऽसाधारणो मतः ॥73॥ 

तथैवाऽनुपसंहारी केवलान्वयिपक्षकः ।

( पर्वतो वह्निमान् सत्त्वादिति तत्रादिमो भवेत् ।

पृथ्वी नित्या गन्धवत्त्वादिति स्यादपरस्तथा ।

सर्वं तुच्छं प्रमेयत्वादिति तत्राऽन्तिमो भवेत् ॥ )

यः साध्यवति नैवास्ति स विरुद्ध उदाहृतः ॥74॥ 

( गोत्वादिसाध्ये हेतुर्हि यत्राऽश्वत्वादिको भवेत् )

आश्रयासिद्धिराद्या स्यात्स्वरूपासिद्धिरप्यथ ।

व्याप्यत्वाऽसिद्धिरपरा स्यादसिद्धिस्तस्त्रिधा ॥75॥ 

पक्षाऽसिद्धियंत्र पक्षो भवेन्मणिमयो गिरिः ।

हटो द्रव्यं धूमवत्त्वादत्राऽसिद्धिस्थाऽपरा ॥76॥ 

व्याप्यत्वाऽसिद्धिरपरा नीलधूमादिके भवेत् ।

विरुद्धयोः परामर्शे हेत्वोः सत्प्रतिपक्षता ॥77॥

(श्रावणत्वादितो नित्योऽनित्यस्तु कार्यत्वादितः)

साध्यशून्यो यत्र पक्षस्त्वसौं बाध उदाहृतः ।

उत्पत्तिकालीनघटे गन्धादिर्यत्र साध्यते ॥78॥ 

ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् ।

सादृश्यधीर्गवादीनां या स्यात् सा करणं मतम् ॥79॥ 

वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार उच्यते ।

गवयादिपदानां तु शक्तिधीरुपमा फलम् ॥80॥ 

पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः ।

शाब्दबोधः फलं तंत्र शक्तिधी: सहकारिणी ॥81॥

लक्षणा शक्यसम्बन्धस्तात्पर्याऽनुपपत्तितः ।

आसतियोग्यताऽऽकाङ्क्षातात्पर्यज्ञानमिष्यते ॥82॥ 

कारणं सन्निधानं तु पदस्याऽऽसत्तिरुच्यते ।

पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता ॥83॥ 

यत्पदेन बिना यस्याऽननुभावकता भवेत् ।

आकाङ्क्षा वक्तुरिच्छा तु तात्पर्य परिकीर्तितम् ॥84॥ 

साक्षात्कारे सुखादीनां करणं मन उच्यते ।

अयोगपद्याज्ज्ञानानां तस्याऽणुत्वमिहोच्यते ॥85॥ 

अथ द्रव्याश्रिताज्ञेया निर्गुणा निष्क्रिया गुणाः ।

रूपं रसः स्पर्शगन्धौ परत्वमपरत्वकम् ॥86॥ 

द्रवत्वस्नेहवेगाश्च मता मूर्तगुणा अमी ।

धर्माधर्मो भावना च शब्दो बुद्ध्यादयोऽपि च ॥87॥ 

एतेऽमूर्तगुणाः सर्वे विद्वद्भिः परिकीर्तिताः ।

संख्यादयो विभागान्ता उभयेषां गुणा मताः ॥88॥

संयोगश्च विभागश्च संख्या द्वित्वादिकास्तथा ।

द्विपृथक्त्वादयस्तद्वदेतेऽनेकाश्रिता गुणाः ॥89॥ 

अतः शेषगुणाः सर्वे मता एकैकवृत्तयः ।

बुद्ध्यादिषट्कं स्पर्शान्ताः स्नेहः सांसिद्धिको द्रवः ॥90॥ 

अदृष्टभावनाशब्दा अमी वैशेषिका गुणाः ।

संख्यादिरपरत्वान्तो द्रवोऽसांसिद्धिकस्तथा ॥91॥ 

गुरुत्ववेगौ सामान्यगुणा एते प्रकीर्तिताः ।

संख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च ॥92॥ 

एते तु द्वीन्द्रियग्राह्या अथ स्पर्शान्तशब्दकाः ।

वाहाँकै केन्द्रियग्राह्या गुरुत्वाऽदृष्टभावनाः ॥93॥ 

अतीन्द्रिया विभूनां तु ये स्युर्वैशेषिका गुणाः ।

अकारणगुणोत्पन्ना एते तु परिकीर्तिताः ॥94॥ 

अपाकजास्तु स्पर्शान्ता द्रवत्वं च तथाविधम् ।

स्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणकम् ॥95॥ 

स्थितिस्थापक इत्येते स्युः कारणगुणोद्भवाः ।

संयोगश्च विभागश्च वेगश्चैते तु कर्मजाः ॥96॥ 

स्पर्शान्तपरिमाणैकपृथक्त्वस्नेहशब्दके ।

भवेदसमवायित्वमथ वैशेषिके गुणे ॥97॥ 

आत्मनः स्यान्निमित्तत्वमुष्णस्पर्शगुरुत्वयोः ।

वेगेऽपि च द्रवत्वे च संयोगादिद्वये तथा ॥98॥ 

द्विधैव कारणत्वं स्यादथ प्रादेशिको भवेत् ।

वैशेषिको विभुगुणः संयोगादिद्वयं तथा ॥99॥ 

चक्षुर्ग्राह्यं भवेद्रूपं द्रव्यादेरुपलम्भकम् ।

चक्षुषः सहकारिस्याच्छुक्लादिकमनेकधा ॥100॥ 

जलादिपरमाणौ तन्नित्यमन्यत्सहेतुकम् ।

रसस्तु रसनाग्राह्यो मधुरादिरनेकधा ॥101॥

सहकारि रसज्ञाया नित्यतादि च पूर्ववत् ।

ग्राणग्राह्यो भवेद् गन्धो घ्राणस्यैवोपकारकः ॥102॥

सौरभश्चाऽसौरभश्च स द्वेधा परिकीर्तितः ।

स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः ॥103॥ 

अनुष्णाशीतशीतोष्णभेदात् स त्रिविधो मतः ।

काठिन्यादि क्षितावेव नित्यतादि च पूर्ववत् ॥104॥ 

एतेषां पाकजत्वं तु क्षितौ नाऽन्यत्र कुत्रचित् ।

तत्राऽपि परमाणौ स्यात् पाको वैशेषिके नये ॥105॥ 

नैयायिकानां तु नये द्यणुकादावपीष्यते ।

गणना व्यवहारे तु हेतुः संख्याऽभिधीयते ॥106॥ 

नित्येषु नित्यमेकत्वमनित्येऽनित्यमिष्यते ।

द्वित्वादयः परार्धान्ता अपेक्षाबुद्धिजा मताः ॥107॥ 

अनेकाश्रयपर्याप्ता एते तु परिकीर्तिताः।

अपेक्षाबुद्धिनाशाच्च नाशस्तेषां निरूपितः ।।108।।

अनेकैकत्वबुद्धिर्या साऽपेक्षाबुद्धिरिष्यते ।

परिमाणं भवेन्मानव्यवहारस्य कारणम् ॥109॥ 

अणु दीर्घ महस्वमिति तद्भेद ईरितः ।

अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम् ॥110॥

संख्यातः परिमाणाच्च प्रचयादपि जायते ।

अनित्यं झणुकादौ तु संख्याजन्यमुदाहृतम् ॥111॥ 

परिमाणं घटादौ तु परिमाणजमुच्यते ।

प्रचयः शिथिलाख्यो वः संयोगस्तेन जन्यते ॥112॥ 

परिमाणं तूलकादी नाशस्त्वाश्रयनाशतः ।

संख्यावत्तु पृथक्त्वं स्यात्पृथकप्रत्ययकारणम् ।।113।।

अन्योन्याभावतो नाऽस्य चरितार्थत्वमिष्यते ।

अस्मात्पृथगिदं नेति प्रतीतिर्हि विलक्षणा ॥114॥ 

अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः ।

कीर्तितस्त्रिविधस्त्वेष आद्योऽन्यतरकर्मजः ॥115॥ 

तथोभयक्रियाजन्यो भवेत्संयोगजोऽपरः ।

आदिमः श्येनशैलादिसंयोगः परिकीर्तितः ॥116॥ 

मेषयोः सन्निपातो यः स द्वितीय उदाहृतः ।

समवायिकारणत्वं द्रव्यस्यैवेति विज्ञेयम् ।

कपालतरुसंयोगात्संयोगस्तरुकुम्भयोः ॥117॥ 

तृतीयः स्यात् कर्मजोऽपि द्विधैव परिकीर्तितः ।

अभिघातो नोदनं च शब्दहेतुरिहादिमः ॥118॥ 

शब्दाऽहेतुर्द्वितीयः स्याद् विभागोऽपि त्रिधा भवेत् ।

एककर्मोद्भवस्त्वाद्यो द्रयकर्मोद्भवोऽपरः ॥119॥ 

विभागजस्तृतीयः स्यात् तृतीयोऽपि द्विधा भवेत् ।

हेतुमात्रविभागोत्थो हेत्वहेतुविभागजः ॥120॥ 

परत्वं वाऽपरत्वं च द्विविधं परिकीर्तितम् ।

दैशिकं कालिकं चाऽपि मूर्त एव तु दैशिकम् ॥121।।

परत्वं मूर्तसंयोगभूयस्त्वज्ञानतो भवेत् ।

अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम् ॥ 122॥ 

तयोरसमवायी तु दिक्संयोगस्तदाश्रये ।

दिवाकरपरिस्पन्दभूयस्त्वज्ञानतो भवेत् ।।123।।

परत्वमपरत्वं तु तदीयाल्पत्वबुद्धितः ।

अत्र त्वसमवायीस्यात्संयोगः कालपिण्डयोः ॥124॥ 

अपेक्षाबुद्धिनाशेन नाशस्तेषां निरूपितः ।

बुद्धेः प्रपञ्चः प्रागेव प्रायशो विनिरूपितः ॥125॥ 

अथाऽवशिष्टोऽप्यपरः प्रकारः परिदर्श्यते ।

अप्रमा च प्रमा चेति ज्ञानं द्विविधमिष्यते ॥126॥ 

तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता ।

तत्प्रपञ्चो विपर्यासः संशयोऽपि प्रकीर्तितः ॥127॥

आद्यो देहेष्वात्मबुद्धिः शङ्खादौ पीततामतिः ।

भवेन्निश्चयरूपा या संशयोऽथ प्रदर्श्यते ॥128॥ 

किंस्विन्नरो वा स्थाणुर्वेत्यादिबुद्धिस्तु संशयः ।

तदभावाऽप्रकारा धीस्तत्प्रकारा तु निश्वयः ॥129॥ 

स संशयो मतिर्या स्यादेकत्राऽभावभावयोः ।

साधारणादिधर्मस्य ज्ञानं संशयकारणम् ॥130॥ 

दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् ।

पितदूरत्वादिरूपो दोषो नानाविधः स्मृतः ॥131॥ 

प्रत्यक्षे तु विशेष्येण विशेषणवता समम् ।

सन्निकर्षो गुणस्तु स्यादथ त्वनुमितौ पुनः ॥132॥ 

पक्षे साध्यविशिष्टे तु परामर्शो गुणो भवेत् ।

शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुणः ॥133॥ 

शाब्दबोधे योग्यतायास्तात्पर्यस्याऽथ वा प्रमा।

गुणः स्यात् भ्रमभिन्नं तु ज्ञानमत्रोच्यते प्रमा ॥134॥ 

अथवा तत्प्रकारं यज्ज्ञानं तद्वद्विशेष्यकम् ।

तत्प्रमा न प्रमा नाऽपि भ्रमः स्यान्निर्विकल्पकम् ॥135॥ 

प्रकारतादिशून्यं हि सम्बन्धानवगाहि तत् ।

प्रमात्वं न स्वतोग्राह्यं संशयानुपपत्तितः ॥136॥ 

व्यभिचास्याऽग्रहोऽपि सहचारग्रहस्तथा ।

हेतुर्व्याप्तिग्रहे तर्कः क्वचिच्छङ्कानिवर्तकः ॥137॥ 

साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा ।

स उपाधिर्भवेत्तस्य निष्कर्षोऽयं प्रदर्श्यते ॥138॥ 

सर्वे साध्यसमानाधिकरणाः स्युरुपाधयः ।

हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता ॥139॥ 

व्यभिचारस्यानुमानमुपाधेस्तु प्रयोजनम् ।

शब्दोपमानयोर्नैव पृथक् प्रामाण्यमिष्यते ॥140॥ 

अनुमानगतार्थत्वादिति वैशेषिकं मतम् ।

तन्न सम्यग्विना व्याप्तिबोधं शाब्दादिबोधतः ॥141॥ 

त्रैविध्यमनुमानस्य केवलान्वयिभेदतः ।

द्वैविध्यं तु भवेद् व्याप्तेरन्वयव्यतिरेकतः ॥142॥ 

अन्वयव्याप्तिरुक्तैव व्यतिरेकादिहोव्यते ।

साध्याभावव्यापकत्वं हेत्वभावस्य यद्भवेत् ॥143॥ 

अर्थापत्तिस्तु नैवेह प्रमाणान्तरमिष्यते ।

व्यतिरेकव्याप्तिबुद्ध्या चरितार्था हि सा यतः ॥144॥ 

सुखं तु जगतामेव काम्यं धर्मेण जायते ।

अधर्मजन्यं दुःखं स्यात्प्रतिकूलं सचेतसाम् ॥145॥ 

निर्दुः खत्वे सुखे वेच्छा तज्ज्ञानादेव जायते ।

इच्छा तु तदुपाये स्वादिष्टोपायत्वधीर्यदि ॥146॥ 

चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा तु या भवेत् ।

तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत् ॥147॥ 

बलवद्विष्टहेतुत्वमतिः स्यात्प्रतिबन्धिका ।

तदहेतुत्वबुद्धेस्तु हेतुत्वं कस्यचिन्मते ॥148॥ 

द्विष्टसाधनताबुद्धिर्भवेद् द्वेषस्य कारणम् ।

प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् ॥149॥ 

एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिकीर्तितम् ।

विकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा ॥150॥

उपादानस्य वाध्यक्षं प्रवृत्तौ जनकं भवेत् ।

निवृत्तिस्तु भवेद् द्वेषाद् द्विष्टसाधनताधियः ॥151॥ 

यत्नो जीवनयोनिस्तु सर्वदाऽतीन्द्रियो भवेत् ।

शरीरे प्राणसञ्चारे कारणं परिकीर्तितः ॥152॥ 

अतीन्द्रियं गुरुत्वं स्यात्पृथिव्यादिद्वये तु तत् ।

अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम् ॥153॥ 

तदेवाऽसमवायी स्यात् पतनाख्ये तु कर्मणि ।

सांसिद्धिकं द्रवत्वं स्यान्नैमित्तिकमथाऽपरम् ॥154॥ 

सांसिद्धिकं तु सलिले द्वितीयं क्षितितेजसोः ।

परमाणौ जले नित्यमन्यत्राऽनित्यमिष्यते ॥155॥ 

नैमित्तिकं वह्नियोगात्तपनीयघृतादिषु ।

द्रवत्वं स्यन्दने हेतुर्निमित्तं संग्रहे तु तत् ॥156॥ 

स्नेहो जले स नित्योऽणावनित्योऽवयविन्यसौ ।

तैलान्तरे तत्प्रकर्शाद् दहनस्यानुकूलता ॥157॥ 

संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने ।

मूर्तमात्रे तु वेगः स्यात्कर्मजो वेगजः क्वचित् ॥158॥ 

स्थितिस्थापकसंस्कारः क्षितौ केचिच्चतुर्ष्वपि ।

अतीन्द्रियोऽसौ विज्ञेयः क्वचित्स्पन्देऽपि कारणम् ॥159॥ 

भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रियः ।

उपेक्षानात्मकस्तस्य निश्चयः कारणं भवेत् ॥160॥ 

स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते ।

धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिकारणम् ॥161॥ 

गङ्गास्नानादियागादिव्यापारः स तु कीर्तितः ।

कर्मनाशाजलस्पर्शादिना नाश्यस्त्वसौ मतः ॥162॥ 

अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः ।

प्रायश्चित्तादिनाश्योऽसौ जीववृत्ती त्विमौ गुणों ॥163॥ 

इमौ तु वासनाजन्यौ ज्ञानादपि विनश्यतः ।

शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः ॥164॥ 

कण्ठसंयोगादिजन्या वर्णास्ते कादयो मताः ।

सर्वः शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते ॥165॥ 

वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता ।

कदम्बगोलकन्यायादुत्पत्तिः कस्यचिन्मते ॥166॥ 

उत्पन्नः को विनष्टः क इति बुद्धेरनित्यता ।

सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते ॥167॥ 

तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात् ।

तस्मादनित्या एवेति वर्णाः सर्वे मतं हि नः ॥168॥ 

               ॥ इति कारिकापाठः ॥ 

Karikavali pdf download karne ke liye link per click kare -

Download

COMMENTS

BLOGGER
block1/संस्कृत में अवसर और सम्भावनाएँ
https://gmail.us21.list-manage.com/subscribe?u=53d25bd67a9aa4979dc182652&id=8aa2dc5997
नाम

अध्यात्म,200,अनुसन्धान,19,अन्तर्राष्ट्रीय दिवस,2,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,13,आधुनिक विज्ञान,19,आधुनिक समाज,146,आयुर्वेद,45,आरती,8,उत्तररामचरितम्,35,उपनिषद्,5,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,119,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,क्रिसमस डेः इतिहास और परम्परा,9,गजेन्द्र मोक्ष,1,गीता रहस्य,1,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,49,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,48,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पौराणिक कथाएँ,64,प्रश्नोत्तरी,28,प्राचीन भारतीय विद्वान्,99,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,38,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,27,भागवत अष्टम स्कन्ध,28,भागवत एकादश स्कन्ध,31,भागवत कथा,118,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,3,भागवत के पांच प्रमुख गीत,2,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,90,भागवत द्वादश स्कन्ध,13,भागवत द्वितीय स्कन्ध,10,भागवत नवम स्कन्ध,25,भागवत पञ्चम स्कन्ध,26,भागवत पाठ,58,भागवत प्रथम स्कन्ध,21,भागवत महात्म्य,3,भागवत माहात्म्य,12,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत सप्तम स्कन्ध,15,भागवत साप्ताहिक कथा,9,भागवत सार,33,भारतीय अर्थव्यवस्था,4,भारतीय इतिहास,20,भारतीय दर्शन,4,भारतीय देवी-देवता,6,भारतीय नारियां,2,भारतीय पर्व,40,भारतीय योग,3,भारतीय विज्ञान,35,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय संविधान,1,भारतीय सम्राट,1,भाषा विज्ञान,15,मनोविज्ञान,1,मन्त्र-पाठ,7,महापुरुष,43,महाभारत रहस्य,33,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,124,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीयगीत,1,रुद्राभिषेक,1,रोचक कहानियाँ,150,लघुकथा,38,लेख,168,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,10,वैदिक कथाएँ,38,वैदिक गणित,1,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,9,व्रत एवं उपवास,35,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,455,सूरदास,1,स्तोत्र पाठ,59,स्वास्थ्य और देखभाल,1,हँसना मना है,6,हमारी संस्कृति,93,हिन्दी रचना,32,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,darshan,17,Download,3,General Knowledge,29,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,38,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,
ltr
item
भागवत दर्शन: कारिकावली (न्याय सिद्धांत मुक्तावली), विश्वनाथ पंचानन भट्टाचार्य
कारिकावली (न्याय सिद्धांत मुक्तावली), विश्वनाथ पंचानन भट्टाचार्य
Karikavali, कारिकावली, विश्वनाथ पंचानन भट्टाचार्य, न्याय सिद्धांत मुक्तावली, karikavali pdf, karikavali pdf free download,
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiBu67IOkdvhKvrpUJfBxdRi-a8Uvj701gD8ldz6K4CDCRIETjE1WV2fdj0p_cLn4mpgR0bAr-pqPrmQjNNGFcXwoyKZ08EfaWiN3fkQER5uYsbOSkIlOT9R4rpLStdVsu5FiBTWo3A8PdkQ63wcI6VULbDxQHe-oUgGS2DzeFPED6zAltQedIruu0uBCo/w226-h320/1691227650347.jpg
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiBu67IOkdvhKvrpUJfBxdRi-a8Uvj701gD8ldz6K4CDCRIETjE1WV2fdj0p_cLn4mpgR0bAr-pqPrmQjNNGFcXwoyKZ08EfaWiN3fkQER5uYsbOSkIlOT9R4rpLStdVsu5FiBTWo3A8PdkQ63wcI6VULbDxQHe-oUgGS2DzeFPED6zAltQedIruu0uBCo/s72-w226-c-h320/1691227650347.jpg
भागवत दर्शन
https://www.bhagwatdarshan.com/2023/08/blog-post_27.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2023/08/blog-post_27.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content