भगवति वीणावादिनि! वन्दे
(1)
शारदाभ्रनिर्मलपरिधाने !
हंसासीने वीणापाणे!
देवदनुजनरवन्दितचरणे!
जय वरदायिनि विजयवितरणे!
अनिशं तव वरिवस्याप्रवणा !
भक्तास्ते विलसन्त्यानन्दे!
(2)
त्वां विद्यानां सकलकलानां
परितो व्याततविमलविताना
कति न जना भूमौ राजन्ते
समुपार्जितविज्ञाननिधाना
लसतु मनोमधुपोऽपि मदीयः
रममाणः पदारविन्दे ॥
(3)
भुक्तिं यच्छसि दिशसि च मुक्तिं
कथयसि विपदुन्मज्जनयुक्तिं
ज्ञाननिधिस्तव जलधिगभीर:
कस्तं तनुं शक्तो धीरः तव
सम्पत्कणविचयशालिनः
किं न रमन्ते भुवनालिन्दे
(4)
यच्च विलोक्यं भुवि कमनीयम्
अगणितसुखसुविधारमणीयं
तत्रमहिम्नां ते विस्तार:
लभ्यो जातु न पारोऽवार:
चकितखगोऽब्धावेति च पोते
एमि पदाब्जे तव सुखकन्दे
(5)
वितर वितर मयि देवि कृपामयि!
तव पदाब्जरतिमविचलभावां
तत्प्रसरत्सौरभ परिपूर्ण
प्राङ्गणमखिल विलसुत जगता
तन्मयतामुपयातु समस्तं
वीणायास्ते क्वणितेऽमन्दे ।
thanks for a lovly feedback