बृहस्पति ग्रह शान्ति मंत्र, जप, कवच और स्तोत्र पाठ

SOORAJ KRISHNA SHASTRI
By -

बृहस्पति(गुरु) ग्रह का परिचय

उत्पत्ति - सिन्धु देश में ।

गोत्र - अंगिरस । 

जाति - ब्राह्मण । 

पिता - अंगिरस ।

पुत्र - कच ।

वर्ण - पीत  ।

दिशा - उत्तर ।

शुभाशुभत्व - शुभ ग्रह

भोग काल - एक वर्ष - 365 दिन

बीज मंत्र

ॐ बृं बृहस्पतये नमः / ॐ ह्रीं क्लीं हूँ बृहस्पतये नमः । ॐ गुरवे नमः

तांत्रिक मंत्र

ॐ ग्राँ ग्रीं ग्रौं सः गुरवे नमः। 

वैदिक मंत्र

ॐ बृहस्पते अति यदर्यो अर्हाद्विमद्विभाति क्रतुमज्जनेषु । यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥

पुराणोक्त मंत्र

ॐ देवानां च ऋषीणां च गुरुं काचन सन्निभम्।

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पितम् ।। 

जप संख्या

19000 कलयुगे चतुर्थगुणो अर्थात 76000 + दशांश हवन - 7600 +दशांश तर्पण - 760 + दशांश मार्जन - 76 = 84436 । 

जप समय - प्रात:काल (सूर्योदय के समय)

हवन के लिए समिधा - पीपल

रत्न - 6.5 रत्ती पुखराज। 

बृहस्पति के लिए दान वस्तुएँ

सुवर्ण, कांस्य, पुखराज, हल्दी, नमक, शक्कर, घोडा, पीतपुष्प, पीतवस्त्र, पीतधान्य, माणिक या विद्रुम। 


बृहस्पति कवचम् (ब्रह्मयामलोक्तम्)

विनियोग -

अस्य श्री बृहस्पति कवच महामन्त्रस्य । ईश्वर ऋषिः । अनुष्टुप् छन्दः । बृहस्पतिः देवता । गं बीजं । श्रीं शक्ति: । क्लीं कीलकम् । बृहस्पति प्रीत्यर्थे पाठे विनियोगः ।

अभीष्टफलदं देवं सर्वज्ञं सुरपूजितम् । 

अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ॥ ।।१॥

बृहस्पति: शिरः पातु ललाटं पातु में गुरुः । 

कर्णौ सुरुगुरुः पातु नेत्रे मेऽभीष्टदायकः ॥२॥

जिह्वां पातु सुराचायो नासां में वेदपारगः । 

मुखं मे पातु सर्वज्ञो कण्ठं मे देवता शुभप्रदः ॥ ३॥

भुजौ आङ्गिरसः पातु करौ पातु शुभप्रदः । 

स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥४॥

नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः

कटिं पातु जगद्वन्द्यः ऊरू मे पातु वाक्पतिः ॥५॥

जानु जङ्गे सुराचायो पादौ विश्वात्मकस्तथा । 

अन्यानि यानि चाङ्गानि रक्षेन् मे सर्वतो गुरुः ॥६॥

इत्येतत् कवचं दिव्यं त्रिसन्ध्यं य: पठेन्नरः । 

सर्वान् कामानवाप्नोति सर्वत्र विजयी भवेत् ॥७॥

॥ इति श्री ब्रह्मयामलोक्तम् बृहस्पति कवचं सम्पूर्णम् ॥


बृहस्पति कवचम् (मन्त्र महार्णव)

पीताम्बरः पीतवपुः किरीटी 

चतुर्भुजो देवगुरुः प्रशान्तः । 

दधाति दण्डं च कमण्डलुं च 

तथाक्षसूत्रं वरदोऽस्तु मह्यम् ॥१॥

नमः सुरेन्द्रवन्द्याय देवाचार्याय ते नमः । 

नमस्त्वनन्तसामर्थ्यं देवासिद्धान्तपारगः ॥ २॥

सदानन्द नमस्तेऽस्तु नमः पीडाहराय च । 

नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ॥३॥

नमोऽद्वितीयरूपाय लम्बकूर्चाय ते नमः । 

नमः प्रहृष्टनेत्राय विप्राणां पतये नमः ॥४॥

नमो भार्गवशिष्याय विपन्नहितकारकः ।

नमस्ते सुरसैन्याय विपन्नत्राणहेतवे ॥५॥ 

विषमस्थस्तथा नृणां सर्वकष्टप्रणाशनम् ।

प्रत्यहं तु पठेद्यो वै तस्य कामफलप्रदम् ॥६॥

॥ इति मन्त्रमहार्णवे बृहस्पति कवचम् ॥


बृहस्पति स्तोत्रम् 

विनियोग -

अस्य श्री बृहस्पति स्तोत्रस्य । गृत्समद ऋषिः । अनुष्टुप् छन्दः । बृहस्पतिर्देवता । बृहस्पति प्रीत्यर्थं जपे विनियोगः ।

गुरुर्बृहस्पतिर्जीवः सुराचार्यो विदां वरः । 

वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा ॥१॥

सुधादृष्टिर्ग्रहाधीशो ग्रहपीडापहारकः । 

दयाकरः सौम्यमूर्तिः सुरार्च्यः कुड्मलद्युतिः ॥२॥

लोकपूज्यो लोकगुरुः नीतिज्ञो नीतिकारकः । 

तारापतिश्चाङगिरसो वेदवेद्यः पितामहः ॥ ३ ॥

भक्त्या बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् । 

अरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः ॥४॥

जीवेत् वर्षशतं मर्त्यः पापं नश्यति नश्यति ।

यः पूजयेत् गुरुदिने पीतगन्धाक्षताम्बरैः ॥५॥

पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् । 

ब्रह्मणान् भोजयित्वा च पीडाशान्तिर्भवेत् गुरोः ॥६॥

॥ इति श्री स्कन्दपुराणे बृहस्पतिस्तोत्रं सम्पूर्णम् ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!