मंगल ग्रह शान्ति मंत्र, जप, कवच और स्तोत्र पाठ

SOORAJ KRISHNA SHASTRI
0

मंगल ग्रह परिचय

उत्पत्ति - अवन्ति देश में  ।

गोत्र - भारद्वाज । 

जाति - क्षत्रिय । 

वर्ण - रक्त ।

शुभाशुभत्व - पाप ग्रह। 

भोग काल - डेढ मास - 40 दिन

 बीज मंत्र

ॐ अं अंगारकाय नमः / ॐ हूँ श्रीं भौमाय नमः / ॐ भौमाय नमः

तांत्रिक मंत्र

ॐ क्राँ क्रीं क्रौं सः भौमाय नमः

वैदिक मंत्र

ॐ अग्निमूर्धा दिवः ककुत्पतिः पृथिव्या अयम्। अपा गुंग रेता गुंग सि जिन्वति ।।

पुराणोक्त मंत्र

ॐ धरणी गर्भ संभूतं विद्युत्कान्ति समप्रभम् । 

कुमारं शक्ति हस्तञ्च मंगलं प्रणमाम्यहम् ।।

जप संख्या - 

10000 कलयुगे चतुर्थगुणो अर्थात 40000 + दशांश हवन -. 4000 +दशांश तर्पण - 400 + दशांश मार्जन - 40 = 44440

जप समय

दिन का प्रथम प्रहर

हवन की समिधा

खदिर (खैर)

रत्न

12.5 रत्ती मूंगा

दान वस्तु

सुवर्ण, ताँबा, मूंगा, मसुर, गुड, गेहूँ, लाल बैल, लालपुष्प, लालवस्त्र। 

मंगल कवचम् 

विनियोग -

अस्य श्री अंगारक कवच स्तोत्र मंत्रस्य । कश्यप ऋषिः । अनुष्टुप् छन्दः । अङ्गारको देवता भौम पीडा परिहारार्थं पाठे विनियोगः ॥

रक्तांबरो रक्तवपुः किरीटी 

चतुर्भुजो मेषगमो गदाभृत् । 

धरासुतः शक्तिधरश्च शूली 

सदा ममस्याद्वरदः प्रशांतः ॥ १ ॥

अंगारकः शिरो रक्षेन्मुखं वै धरणीसुतः ।

श्रवौ रक्तांबरः पातु नेत्रे मे रक्तलोचनः ॥२॥

नासां शक्तिधरः पातु मुखं मे रक्तलोचनः । 

भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ॥३।।

वक्षः पातु वरांगश्च हृदयं पातु लोहितः ।

कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥४॥

जानु जंघे कुजः पातु पादौ भक्तप्रियः सदा । 

सर्वण्यन्यानि चांगानि रक्षेन्मे मेषवाहनः ॥५॥

या इदं कवचं दिव्यं सर्वशत्रु निवारणम् ।

भूतप्रेतपिशाचानां नाशनं सर्व सिद्धिदम् ॥६॥

सर्वरोगहरं चैव सर्वसंपत्प्रदं शुभम् । 

भुक्तिमुक्तिप्रदं नृणां सर्वसौभाग्यवर्धनम् ॥७॥

॥ इति श्रीमार्कण्डेयपुराणे मंगलकवचं संपूर्णम् ॥


अङ्गारक स्तोत्रम्

विनियोग -

अस्य श्री अंगारक स्तोत्रस्य मंत्रस्य । विरुपांगिरस ऋषिः । अग्नि देवता । गायत्री छन्दः । भौम प्रीत्यर्थे पाठे विनियोगः ॥

अंगारकः शक्तिधरो लोहिताङ्गो धरासुतः ।

कुमारो मङ्गलो भौमो महाकायो धनप्रदः ॥१॥ 

ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः । 

विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ॥२॥

सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः । 

लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ॥ ३॥

रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः । 

नामान्येतानि भौमस्य यः पठेत्सततं नरः ॥४॥ 

ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति । 

धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् । 

वंशोद्द्योतकरं पुत्रं लभते नात्र संशयः ॥५॥ 

योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः । 

सर्वा नश्यति पीडा च तस्य ग्रहकृता ध्रुवम् ॥६॥

॥इति श्री स्कान्दपुराणे श्री अङ्गारकस्तोत्रं सम्पूर्णम्।


ऋणमोचक मंगल स्तोत्र

मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः । 

स्थिरामनो महाकायः सर्वकर्मविरोधकः ॥१॥

लोहितो लोहिताक्षश्च सामगानां कृपाकरम् । 

वैरात्मजः कुजौ भौमो भूतिदो भूमिनंदनः ॥२॥ 

धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् । 

कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम् ॥३॥ 

अंगारको यमश्चैव सर्वरोगापहारकः । 

वृष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः ॥४॥ 

एतानि कुजनामानि नित्यं यः श्रद्धया पठेत् । 

ऋणं न जायते तस्य धनं शीघ्रमवाप्रुयात् ॥५॥

 स्तोत्रमंगारकस्यैतत्पठनीयं सदा नृभिः । 

तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित् ॥६॥

अंगारको महाभाग भगवन्भक्तवत्सल । 

त्वां नमामि ममाशेषमृणमाशु विनाशयः ॥७॥

ऋणरोगादिदारिद्रयं ये चान्ये ह्यपमृत्यवः । 

भयक्लेश मनस्तापा: नश्यन्तु मम सर्वदा ॥८॥ 

अतिवक्र दुराराध्य भोगमुक्तजितात्मनः । 

तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् ॥९॥ 

विरञ्चि शक्रादिविष्णूनां मनुष्याणां तु का कथा । 

तेन त्वं सर्वसत्वेन ग्रहराजो महाबलः ॥ १०॥ 

पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः । 

ऋणदारिद्रयं दुःखेन शत्रुणां च भयात्ततः ॥११॥ 

एभिद्रवादशभिः श्लोकैर्यः स्तौति च धरासुतम् । 

महतीं श्रियमाप्रोति ह्यपरा धनदो युवा: ॥१२॥

॥ इति श्रीस्कन्दपुराणे भार्गवप्रोक्त ऋणमोचन मंगलस्तोत्रम् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top