देववाणीं वेदवाणीम्

SOORAJ KRISHNA SHASTRI
1

देववाणीं वेदवाणीं मातरं वन्दामहे ।

चिरनवीनां चिरपुराणीं सादरं वन्दामहे ।। 

              

दिव्यसंस्कृतिरक्षणार्थं तत्परा भुवने भ्रमन्तः । 

लोकजागरणाय सिद्धाः संघटनमन्त्रं जपन्तः । 

कृतिपरा लक्षैकनिष्ठा भारतं सेवामहे ।। 


भेदभावनिवारणार्थं बन्धुतामनुभावेयम। 

कर्मणा मनसा च वचसा मातृवन्दनमाचरेम । 

कीर्तिधनपदकामनाभिर्विरहिता मोदामहे ।।


संस्कृतेर्विमुखं समाजं जीवनेन शिक्षयेम। 

मनुकुलादर्शं समन्तात् पालयित्वा दर्शयेम। 

जीवनं संस्कृतहितार्थं स्वार्पितं मन्यामहे ।। 


वयमसाध्यं लक्ष्यमेतत् संस्कृतेन साधयन्तः । 

त्यागधैर्यसमर्पणेन नवलमितिहासं लिखन्तः । 

जन्मभूमिसमर्चनार्थं सर्वतः स्पन्दामहे ।। 


भारताः सोदराः सर्वे भावमेतं हृदि विदधतः । 

वयं संस्कृतसाधका इह सज्जिता नैजं विधाय । 

परमवैभवसाधनार्थं वरमहो याचामहे ।।

एक टिप्पणी भेजें

1 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top