नववर्ष स्वागतम्
(१) (शार्दूलविक्रीडित छन्द)
हे शुक्लप्रतिपत्तिथे मधुमधो हे नूत्नसंवत्सर
हे सृष्टीष्ट सदा जगद्धितकर प्राणीश हे प्रीतिद ।
हे मैत्रीवर्द्धक सदा प्रतिजने हे शान्तिसौख्यार्पक
सानन्दं तव कुर्महे हि सकलाः सुस्वागतं स्वागतम्॥
(२) (स्रग्धरा)
त्वं सृष्टेराद्यवर्षं युगशकसहितं विक्रमार्कस्यवर्षं
त्वत्तो जीवस्य तत्त्वं विकसति जगति प्राणदं सर्वसृष्टेः ।
सत्ता ते भाति विश्वे ग्रहनिकरयुता पञ्जिकासारयुक्ता
त्वां च स्वीकृत्य लोकाः सहृदयनमनं कुर्वते भो प्रसीद ॥
(3) (शार्दूलविक्रीडित छन्द)
प्राप्तेऽस्मिन्नववत्सरे सहृदयः साह्लादकः प्रार्थये
मित्राणां शुभकामनां बहुविधां राजन्तु सर्वे सदा ।
आनन्दं कुशलं सुखं च विभवं ज्ञानं प्रशान्तिं यशः
नित्यं रातु नवीनवत्सरवरं हिन्दुप्रणम्यं मुहुः ॥
thanks for a lovly feedback