माँ सरस्वती को नमस्कार। सरस्वती संस्कृत वन्दना।

SOORAJ KRISHNA SHASTRI
0

ब्रह्मकमण्डलुनिर्गतनिर्मलगङ्गतरङ्गप्रक्षालिताङ्गपवित्रिते,नितान्तसिताञ्चलवसनविभूषिताङ्गलताप्रसन्नानने,विमलवरविलासहासच्छटाविभूषितललिताधरे,विद्रुमाभनखमणिरुचाच्छन्नाङ्गुलिस्फुरन्मुक्ताक्षमालामण्डलेऽजपाजपपरायणे,परमधवलपक्षद्वयसनाथितराजहंसपृष्ठप्रान्तविराजिते, ललिताक्रोडसुसंस्थितकच्छपीतिमहावीणागुणारणनस्फूर्जित सामस्वरसहितसकलागमच्छन्दोवितानप्रतानमधुरे मातर्महासरस्वति ! अत्रभवतीनाञ्चरणारविन्दमकरन्दरसानुपानपालितस्तेऽयं कुपुत्रवरः कुकविः कृष्णोपनामा सूरजकुमारो ब्रवीति सुप्रभातम् ।

अनङ्गरङ्गोत्सवमासकेऽस्मिन् 

धरातले नृत्यति मोदमग्नः ।

चिदंशकस्ते प्रणवोपनामा 

सदर्थसंवाहकशब्दशीलो ॥


लसन्महोदारसुभावसिद्धः । 

कवित्वधर्मादरबद्धबुद्धिः 

पदारविन्दे नुतिमातनोति ।

वसन्तसन्तेन सुशिक्षितो सौ ॥


अनङ्गरङ्गोत्सवमासकेऽस्मिन्

वसन्तसन्तेन सुशिक्षितो सौ ।

धरातले नृत्यति मोदमग्नः,

चिदंशकस्ते कृष्णोपनामा ॥


सदर्थसंवाहकशब्दशीलो

लसन्महोदारसुभावसिद्धः ।

कवित्वधर्मादरबद्धबुद्धिः

पदारविन्दे नुतिमातनोति ।।


अयि! प्रसन्ना भव शारदे त्वं

मुखारविन्दे विश मे सुमातः!

मुखे मुखे मे विशतान्नु सद्यः

शुभावितेयं कविताक्षरश्रीः ।। 


प्राणसंचारिणी रम्या हारिणी सुधियां मनः ।

कृष्णोच्चारिता वाणी भूयाद्भुवनतारिणी॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top