राधिकेशाय तुभ्यं नमः।
रुक्मिणीशाय तुभ्यं नमः।।
रम्यगोपाय तुभ्यं नमः ।
गोपिकेशाय तुभ्यं नमः ।।
त्वं धराया महद् दुःखमुन्मोचकः ,
त्वं क्षितेरङ्गणे हर्षसंवर्षकः ,
धर्मधूर्धारणे त्वं ध्वजादण्डकः ,
कंसवंशादिपाखण्डमाखण्डकः ।।
श्रीव्रजेशाय तुभ्यं नमः ।
माथुरेशाय तुभ्यं नमः।।
पूतनायै प्रदता विमुक्तिस्त्वया ।
अर्जुनौ तौ विमुक्तौ द्रुमत्वं गतौ ।।
ब्रह्मणो मोहनाशाय लीला कृता।
इन्द्रमानस्त्वया देव संखण्डितः ।।
गोगिरीशाय तुभ्यं नमः ।
श्रीरमेशाय तुभ्यं नमः ।।
प्रीतिसिन्धूत्तमायास्तु नित्यं नमः ।
कौ रसेशाय सर्वाय तुभ्यं नमः ।।
गोपिकावस्त्रचौराय तुभ्यं नमः ।
यज्ञपत्नीसुखायास्तु नित्यं। नमः ।।
रासरूपाय तुभ्यं नमः ।
रासकेशाय तुभ्यं नमः।।
अद्य जन्माष्टमी या तिथी राजते ।
सा जनिं ते समावाप्य विभ्राजते ।।
अद्य सर्वे वयं नर्तनैः ,कीर्तनैः।
त्वत्सुखं साधयामो मनोरंजनैः।।
योगरूपाय तुभ्यं नमः ।
योगयोग्याय। तुभ्यं नमः।।
thanks for a lovly feedback