रतिसुखसारे गतमभिसारे मवनमनोहरवेषम् ।
न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥
धीरसमीरे यमुनातीरे वसति वने वनमाली
पीनपयोधरपरिसरमर्वनचञ्चलकरयुगशाली ॥ ध्रुवम् ॥
नामसमेतं कृतसङ्केतं वादयते मृदुवेणुम् ।
बहु मनुते ननु ते तनुसङ्गतपवनचलितमपि रेणुम् ॥ धीर० ॥
पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् ।
रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥ धीर० ॥
मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषु लोलम् ।
चल सखि कुञ्जं सतिमिरपुचं शीलय नीलनिचोलम् ॥ धीर० ॥
उरसि मुरारेरुपहितहारे घन इव तरलबलाके।
तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ धीर० ॥
विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् ।
किसलयशयने पङ्कजनयने निधिमिव हर्षनिधानम् ॥ धीर० ॥
हरिरभिमानी रजनिरिदानीमियमपि याति विरामम ।
प्रमुदितहवयं हरिमतिसवयं नमत सुकृतकमनीयम् ॥ धीर० ॥
कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥
श्रीजयदेवं कृतहरिसेवे भणति परमरमणीयम् ।धीर० ॥
thanks for a lovly feedback