भारतीय दर्शन में मोक्ष विचार(भारतीयदर्शनेषु मोक्षविचारः)

SOORAJ KRISHNA SHASTRI
By -

 भारतीयदर्शनेषु मोक्षविचारः

1. मृत्युः मोक्षः इति चार्वाकाः। 

2. आत्मोच्छेदः मोक्ष इति शून्यवादिनः माध्यमिकबौद्धाः। 

3. निर्मलज्ञानोदयः मोक्षः इति इतरे बौद्धाः। 

4. कर्मकृतस्य देहस्वरूपस्य आवरणस्य अभावे जीवस्य सततोर्ध्वगमनं मोक्षः इति जैनाः। 

5. सर्वज्ञत्वादीनां परमात्मगुणानां प्राप्तिः याथात्म्येन भगवत्स्वरूपानुभवश्च मोक्षः इति रामानुजीयाः। 

6. जगत्कर्तृत्व-लक्ष्मीपतीत्व-श्रीवत्सप्राप्तिरहितं दुः खामिश्रितं पूर्णं सुखं मोक्षः इति माध्वाः। 

7. परमैश्वर्यप्राप्तिः मोक्षः इति नकुलीशपाशुपताः। 

8. शिवत्वप्राप्तिः मोक्षः इति शैवाः। 

9. पूर्णात्मतालाभः मोक्ष इति प्रत्यभिज्ञावादिनः। 

10. पारदरसेन देहस्थैर्ये जीवन्मुक्तिः एव मोक्षः इति रसेश्वरवादिनः।

11. अशेषविशेषगुणोच्छेदः मोक्षः इति वैशेषिकाः। 

12. आत्यन्तिकी दुः खनिवृत्तिः मोक्षः इति नैयायिकाः। 

13. दुः खनिवृत्तिः सुखावाप्तिश्चापि इति मोक्षः इति नैयायिकैकदेशिनः। 

14. स्वर्गादिप्राप्तिः मोक्षः इति मीमांसकाः। 

15. मूलचक्रस्थायाः परानामिकायाः ब्रह्मरूपायाः वाचः दर्शनं मोक्षः इति पाणिनीयाः। 

16. प्रकृत्युपरमे पुरुषस्य स्वरूपेण अवस्थानं मोक्षः इति सांख्याः।

17. कृतकर्तव्यतया पुरुषार्थशून्यानां सत्त्वरजस्तमसां मूलप्रकृतौ अत्यन्तलयः प्रकृतेः मोक्षः, चितिशक्तेः निरुपाधिकस्वरूपेण अवस्थानं मोक्षः इति पातञ्जलाः। 

18. मूलाज्ञाननिवृत्तौ स्वस्वरूपाधिगमः मोक्षः इति अद्वैतवेदान्तिनः। 

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!