श्रीमद्भागवत srimadbhagwat bhagwat भागवत भागवत_श्लोक bhagwat_shloka सूरज_कृष्ण_शास्त्री भागवत_कथा मूल_पाठ मूल_पाठ_भागवत bhagwat_katha bhagwatdarshan
मैत्रेय
उवाच
अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः ।
प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत्
॥१॥
ततः सपत्नं मुखतः चरन्तं अकुतोभयम् ।
जघानोत्पत्य गदया हनौ असुरमक्षजः ॥२॥
सा
हता
तेन गदया विहता भगवत्करात् ।
विघूर्णित अपतद्
रेजे तदद्
भुतं
इवाभवत्
॥३॥
स
तदा
लब्धतीर्थोऽपि
न
बबाधे निरायुधम् ।
मानयन्समृधे धर्मं विष्वक्सेनं प्रकोपयन्
॥४॥
गदायां अपविद्धायां हाहाकारे विनिर्गते ।
मानयामास तद्धर्मं सुनाभं चास्मरद्वि
भुः
॥५॥
तं
व्यग्रचक्रं दितिपुत्राधमेन
स्वपार्षदमुख्येन विषज्जमानम् ।
चित्रा वाचोऽतद्विदां
खेचराणां
तत्रास्मासन्स्वस्ति
तेऽमुं
जहीति
॥६॥
स
तं निशाम्यात्तरथाङ्गमग्रतो
व्यवस्थितं पद्मपलाशलोचनम् ।
विलोक्य चामर्ष
परिप्लुतेन्द्रियो
रुषा
स्वदन्तच्छदमादशच्छ्वसन्
॥७॥
करालदंष्ट्र श्चक्षुर्भ्यां सञ्चक्षाणो दहन्निव ।
अभिप्लुत्य स्वगदया हतोऽसीत्याहनद्हरिम्॥८॥
पदासव्येन तां साधो भगवान् यज्ञसूकरः ।
लीलया मिषतः शत्रोः प्राहरद्वातरंहसम्
॥९॥
आह चायुधमाधत्स्व घटस्व त्वं जिगीषसि ।
इत्युक्तः स तदा भूयः ताडयन् व्यनदद्भृशम्॥१०॥
तां स आपततींवीक्ष्य भगवान् समवस्थितः ।
जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम्॥११॥
स्वपौरुषे प्रतिहते हतमानो महासुरः ।
नैच्छद्गदां दीयमानां हरिणा विगतप्रभः
॥१२॥
जग्राह त्रिशिखं शूलं
ज्वलज्ज्वलनलोलुपम् ।
यज्ञाय धृतरूपाय विप्रायाभिचरन्यथा ॥१३॥
तदोजसा
दैत्यमहा
भटार्पितं
चकासदन्तः
ख
उदीर्णदीधिति ।
चक्रेण चिच्छेद निशातनेमिना
हरिर्यथा तार्क्ष्यपतत्रमुज्झितम् ॥१४॥
वृक्णे
स्वशूले
बहुधारिणा
हरेः
प्रत्येत्य विस्तीर्णमुरो विभूतिमत् ।
प्रवृद्धरोषः स कठोरमुष्टिना
नदन् प्रहृत्यान्तरधीयतासुरः
॥१५॥
तेनेत्थमाहतः क्षत्तः भगवान् आदिसूकरः ।
नाकम्पत मनाक्क्वापि स्रजा हत इव द्विपः
॥१६॥
अथोरुधासृजन् मायां योगमायेश्वरे हरौ ।
यां विलोक्य
प्रजास्त्रस्ता
मेनिरे
ऽस्योपसंयमम्
॥१७॥
प्रववुर्वायवश्चण्डाः तमः पांसवमैरयन् ।
दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव
॥१८॥
द्यौर्नष्टभगणाभ्रौघैः सविद्युत्स्तनयित्नुभिः ।
वर्षद्भिः पूयकेशासृग्विण्मूत्रास्थीनि चासकृत्
॥१९॥
गिरयः प्रत्यदृश्यन्त नानायुधमुचोऽनघ ।
दिग्वाससो यातुधान्यः शूलिन्यो
मुक्तमू
र्धजाः
॥२०॥
बहुभिर्यक्षरक्षोभिः पत्त्यश्वरथकुञ्जरैः ।
आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसाः
॥२१॥
प्रादुष्कृतानां मायानां आसुरीणां विनाशयत् ।
सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रिपात्॥२२॥
तदादितेः समभवत् सहसा हृदि वेपथुः ।
स्मरन्त्या भर्तुः आदेशं स्तनाच्चासृक्प्रसुस्रुवे
॥२३॥
विनष्टासु स्वमायासु भूयश्चाव्रज्य केशवम् ।
रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहिः ॥२४॥
तं मुष्टिभिर्विनिघ्नन्तं वज्रसारैः अधोक्षजः ।
करेण कर्णमूलेऽहन् यथा त्वाष्ट्रं मरुत्पतिः
॥२५॥
स आहतो विश्वजिता
ह्यवज्ञया
परिभ्रमद्गात्र उदस्तलोचनः ।
विशीर्णबाह्वङ्घ्रिशिरोरुहोऽपतद्
यथा नगेन्द्रो लुलितो नभस्वता
॥२६॥
क्षितौ
शयानं तमकुण्ठवर्चसं
करालदंष्ट्रं परिदष्टदच्छदम् ।
अजादयो वीक्ष्य शशंसुरागता
अहो इमां को नु लभेत संस्थितिम्
॥२७॥
यं योगिनो योगसमाधिना
रहो
ध्यायन्ति लिङ्गादसतो
मुमुक्षया ।
तस्यैष दैत्यऋषभः पदाहतो
मुखं प्रपश्यन् तनुमुत्ससर्ज ह ॥२८॥
एतौ तौ पार्षदावस्य शापाद्यातौ असद्गतिम् ।
पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः ॥२९॥
॥ देवा
ऊचुः ॥
नमो नमस्ते
ऽखिलयज्ञतन्तवे
स्थितौ गृहीतामलसत्त्वमूर्तये ।
दिष्ट्या
हतोऽयं जगतामरुन्तुदः
त्वत्पादभक्त्या वयमीश निर्वृताः
॥३०॥
॥ मैत्रेय
उवाच॥
एवं हिरण्याक्षमसह्यविक्रमं
स सादयित्वा
हरिरादिसूकरः ।
जगाम लोकं स्वमखण्डितोत्सवं
समीडितः पुष्करविष्टरादिभिः
॥३१॥
मया
यथानूक्तमवादि
ते
हरेः
कृतावतारस्य
सुमित्र
चेष्टितम् ।
यथा हिरण्याक्ष उदारविक्रमो
महामृधे क्रीडनवन्निराकृतः ॥३२॥
॥ सूत
उवाच ॥
इति कौषारवाख्यातां आश्रुत्य भगवत्कथाम् ।
क्षत्तानन्दं परं लेभे महाभागवतो द्विज ॥३३॥
अन्येषां पुण्यश्लोकानामुद्दामयशसां सताम् ।
उपश्रुत्य भवेन्मोदः श्रीवत्साङ्कस्य किं पुनः
॥३४॥
यो गजेन्द्रं झषग्रस्तं ध्यायन्तं चरणाम्बुजम् ।
क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद्द्रुतम्
॥३५॥
तं सुखाराध्यमृजुभिरनन्यशरणैर्नृभिः ।
कृतज्ञः को न सेवेत दुराराध्यं असाधुभिः ॥३६॥
यो वै हिरण्याक्षवधं महाद्भुतं
विक्रीडितं कारणसूकरात्मनः ।
श्रृणोति गायत्यनुमोदतेऽञ्जसा
विमुच्यते ब्रह्मवधादपि द्विजाः ॥३७॥
एतन् महापुण्यमलं पवित्रं
धन्यं यशस्यं पदमायुराशिषाम् ।
प्राणेन्द्रियाणां युधि शौर्यवर्धनं
नारायणोऽन्ते गतिरङ्ग श्रृण्वताम् ॥३८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे एकोनविंशोऽध्यायः ॥१९॥
Om Namo bhagwate vasudevay🙏🙏
जवाब देंहटाएंओम् नमो भगवते वासुदेवाय🙏🙏
जवाब देंहटाएं