श्रीमद्भागवत srimadbhagwat bhagwat भागवत भागवत_श्लोक bhagwat_shloka सूरज_कृष्ण_शास्त्री भागवत_कथा मूल_पाठ मूल_पाठ_भागवत bhagwat_katha bhagwatdarshan

bhagwat chapter 3.17

॥ मैत्रेय
उवाच ॥
निशम्यात्मभुवा गीतं कारणं
शङ्कयोज्झिताः ।
ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः ॥१॥
दितिस्तु भर्तुरादेशादपत्यपरिशङ्किनी ।
पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ ॥२॥
उत्पाता बहवस्तत्र निपेतुर्जायमानयोः ।
दिवि भुव्यन्तरिक्षे च लोकस्योरु
भयावहाः
॥३॥
सहाचला भुवश्चेलुः दिशः सर्वाः
प्रजज्वलुः ।
सोल्काश्चाशनयः पेतुः केतवश्चार्तिहेतवः
॥४॥
ववौ वायुः सुदुःस्पर्शः फूत्कारानीरयन्मुहुः ।
उन्मूलयन्नगपतीन् वात्यानीको रजोध्वजः
॥५॥
उद्धसत्तडिदम्भोद घटया नष्टभागणे ।
व्योम्नि प्रविष्टतमसा
न
स्म व्यादृश्यते पदम्
॥६॥
चुक्रोश विमना वार्धिरुदूर्मिः क्षुभितोदरः ।
सोदपानाश्च सरितः चुक्षुभुः शुष्कपङ्कजाः
॥७॥
मुहुः परिधयोऽभूवन् सराह्वोः
शशिसूर्ययोः ।
निर्घाता रथनिर्ह्रादा विवरेभ्यः प्रजज्ञिरे
॥८॥
अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् ।
सृगालोलूकटङ्कारैः प्रणेदुः अशिवं शिवाः
॥९॥
सङ्गीतवद्रोदनवदुन्नमय्य शिरो धराम् ।
व्यमुञ्चन् विविधा वाचो ग्रामसिंहाः ततस्ततः
॥१०॥
खराश्च कर्कशैर्क्षत्तः खुरैर्घ्नन्तो
धरातलम् ।
खार्काररभसा मत्ताः पर्यधावन्वरूथशः
॥११॥
रुदन्तो रासभत्रस्ता नीडादुदपतन्खगाः ।
घोषेऽरण्ये च पशवः शकृन् मूत्रमकुर्वत
॥१२॥
गावोऽत्रसन्नसृग्दोहाः तोयदाः पूयवर्षिणः ।
व्यरुदन्देवलिङ्गानि द्रुमाः पेतुर्विनानिलम् ॥१३॥
ग्रहान् पुण्यतमानन्ये भगणांश्चापि दीपिताः ।
अतिचेरुः वक्रगत्या युयुधुश्च परस्परम् ॥१४॥
दृष्ट्वान्यांश्च महोत्पातान्नतत्तत्त्वविदः प्रजाः ।
ब्रह्मपुत्रान् ऋते भीता मेनिरे विश्वसंप्लवम् ॥१५॥
तौ आदिदैत्यौ सहसा
व्यज्यमानात्मपौरुषौ ।
ववृधातेऽश्मसारेण कायेनाद्रिपती इव ॥१६॥
दिविस्पृशौ
हेमकिरीटकोटिभिः
निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ ।
गां
कंपयन्तौ चरणैः
पदे
पदे
कट्या
सुकाञ्च्यार्कमतीत्य
तस्थतुः
॥१७॥
प्रजापतिर्नाम
तयोरकार्षीद्-
यः प्राक्
स्वदेहाद्यमयोरजायत ।
तं वै हिरण्यकशिपुं विदुः प्रजा
यं तं हिरण्याक्षमसूत साग्रतः ॥१८॥
चक्रे हिरण्यकशिपुः दोर्भ्यां ब्रह्मवरेण
च ।
वशे सपालाँल्लोकाँस्त्रीनकुतोमृत्युरुद्धतः॥१९॥
हिरण्याक्षोनुजस्तस्य प्रियः प्रीतिकृदन्वहम् ।
गदापाणिर्दिवं यातो युयुत्सुः मृगयन् रणम् ॥२०॥
तं वीक्ष्य दुःसहजवं रणत्काञ्चननूपुरम् ।
वैजयन्त्या स्रजाजुष्टमंसन्यस्त महागदम्
॥२१॥
मनोवीर्यवरोत्सिक्तमसृण्यमकुतो भयम् ।
भीता निलिल्यिरे
देवाः तार्क्ष्यत्रस्तः
इवाहयः
॥२२॥
स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्यराट् ।
सेन्द्रान्देवगणान्क्षीबानपश्यन्व्यनदद् भृशम् ॥२३॥
ततो निवृत्तः क्रीडिष्यन् गम्भीरं भीमनिस्वनम्।
विजगाहे महासत्त्वो वार्धिं मत्त इव द्विपः॥२४॥
तस्मिन्प्रविष्टे वरुणस्य सैनिका
यादोगणाः सन्नधियः ससाध्वसाः ।
अहन्यमाना अपि तस्य वर्चसा
प्रधर्षिता दूरतरं प्रदुद्रुवुः ॥२५॥
स वर्षपूगानुदधौ महाबलः
चरन्महोर्मीन् श्वसनेरितान्मुहुः ।
मौर्व्याभिजघ्ने गदया विभावरीं
आसेदिवान् तात पुरीं प्रचेतसः ॥२६॥
तत्रोपलभ्यासुरलोकपालकं
यादोगणानां ऋषभं प्रचेतसम् ।
स्मयन् प्रलब्धुं प्रणिपत्य नीचवत्
जगाद मे देह्यधिराज संयुगम् ॥२७॥
त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा
वीर्यापहो दुर्मदवीरमानिनाम् ।
विजित्य लोकेऽखिलदैत्यदानवान्
यद्राजसूयेन पुरायजत्प्रभो ॥२८॥
स एवमुत्सिक्त मदेन विद्विषा
दृढं प्रलब्धो भगवानपां पतिः ।
रोषं समुत्थं शमयन् स्वया धिया
व्यवोचदङ्गोपशमं गता वयम् ॥२९॥
पश्यामि नान्यं पुरुषात्पुरातनाद्
यः संयुगे त्वां रणमार्गकोविदम् ।
आराधयिष्यत्यसुरर्षभेहि तं
मनस्विनो यं गृणते भवादृशाः ॥३०॥
तं वीरमारादभिपद्य विस्मयः
शयिष्यसे वीरशये श्वभिर्वृतः ।
यस्त्वद्विधानां असतां प्रशान्तये
रूपाणि धत्ते सदनुग्रहेच्छया ॥३१॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे सप्तदशोऽध्यायः ॥१७॥
Om Namo bhagwate vasudevay
ReplyDeleteओम् नमो भगवते वासुदेवाय🙏🙏
ReplyDelete