श्रीमद्भागवत srimadbhagwat bhagwat भागवत भागवत_श्लोक bhagwat_shloka सूरज_कृष्ण_शास्त्री भागवत_कथा मूल_पाठ मूल_पाठ_भागवत bhagwat_katha bhagwatdarshan
bhagwat chapter 2.5 |
॥ नारद
उवाच ॥
देवदेव नमस्तेऽस्तु
भूतभावन
पूर्वज ।
तद्विजानीहि यद् ज्ञानं आत्मतत्त्वनिदर्शनम्
॥१॥
यद्रूपं
यदधिष्ठानं
यतः
सृष्टमिदं
प्रभो ।
यत्संस्थं यत्परं यच्च तत्तत्त्वं वद तत्त्वतः ॥२॥
सर्वं
ह्येतद्भवान्
वेद
भूतभव्यभवत्प्रभुः ।
करामलकवद्विश्वं विज्ञानावसितं तव ॥३॥
यद्
विज्ञानो
यदाधारो
यत्परस्त्वं
यदात्मकः ।
एकः सृजसि भूतानि भूतैरेवात्ममायया ॥४॥
आत्मन् भावयसे तानि न पराभावयन् स्वयम् ।
आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः ॥५॥
नाहं वेद परं ह्यस्मिन् नापरं न समं विभो ।
नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः ॥६॥
स भवानचरद्घोरं यत्तपः सुसमाहितः ।
तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि ॥७॥
एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर ।
विजानीहि यथैवेदं अहं बुध्येऽनुशासितः ॥८॥
॥ ब्रह्मोवाच ॥
सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् ।
यदहं चोदितः सौम्य भगवद्वीर्यदर्शने ॥९॥
नानृतं तव तच्चापि यथा मां प्रब्रवीषि भोः ।
अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥१०॥
येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् ।
यथार्कोऽग्निः यथा सोमो यथर्क्षग्रहतारकाः ॥११॥
तस्मै
नमो
भगवते
वासुदेवाय
धीमहि ।
यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम्
॥१२॥
विलज्जमानया
यस्य
स्थातुमीक्षापथेऽमुया ।
विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥१३॥
द्रव्यं
कर्म
च
कालश्च
स्वभावो
जीव
एव
च ।
वासुदेवात्परो ब्रह्मन् न चान्योऽर्थोऽस्ति तत्त्वतः
॥१४॥
नारायणपरा
वेदा
देवा
नारायणाङ्गजाः ।
नारायणपरालोका नारायणपरा मखाः
॥१५॥
नारायणपरो
योगो
नारायणपरं
तपः ।
नारायणपरं ज्ञानं नारायणपरा गतिः ॥१६॥
तस्यापि
द्रष्टुः
ईशस्य
कूटस्थस्याखिलात्मनः ।
सृज्यं सृजामि सृष्टोऽहं ईक्षयैवाभिचोदितः ॥१७॥
सत्त्वं
रजस्तम
इति
निर्गुणस्य
गुणास्त्रयः ।
स्थिति सर्गनिरोधेषु गृहीता मायया विभोः
॥१८॥
कार्यकारणकर्तृत्वे
द्रव्यज्ञानक्रियाश्रयाः ।
बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः
॥१९॥
स
एष
भगवान्
लिङ्गैः
त्रिभिरेतैरधोक्षजः ।
स्वलक्षितगतिर्ब्रह्मन्
सर्वेषां
मम
चेश्वरः
॥२०॥
कालं
कर्मस्वभावं
च
मायेशो
मायया
स्वया ।
आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥२१॥
कालाद्गुणव्यति
करः
परिणामः
स्वभावतः ।
कर्मणो जन्म महतः पुरुषाधिष्ठितात् अभूत् ॥२२॥
महतस्तु
विकुर्वाणाद्रजः
सत्त्वोपबृंहितात् ।
तमः प्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः ॥२३॥
सोऽहङ्कार
इति
प्रोक्तो
विकुर्वन्समभूत्त्रिधा ।
वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा ।
द्रव्यशक्तिः क्रियाशक्तिः ज्ञानशक्तिरिति प्रभो
॥२४॥
तामसादपि
भूतादेः
विकुर्वाणादभून्नभः ।
तस्य मात्रा गुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः
॥२५॥
नभसोऽथ
विकुर्वाणादभूत्
स्पर्शगुणोऽनिलः ।
परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ॥२६॥
वायोरपि
विकुर्वाणात्
कालकर्मस्वभावतः ।
उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ॥२७॥
तेजसस्तु
विकुर्वाणाद्
आसीदम्भो
रसात्मकम् ।
रूपवत्स्पर्शवच्चाम्भो घोषवच्च परान्वया त् ॥२८॥
विशेषस्तु
विकुर्वाणादम्भसो
गन्धवानभूत् ।
परान्वयाद् रसस्पर्श शब्दरूपगुणान्वितः ॥२९॥
वैकारिकान्मनोजज्ञे
देवावैकारिका दश ।
दिग्वातार्क प्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः
॥३०॥
तैजसात्तु
विकुर्वाणादिन्द्रियाणि
दशाभवन् ।
ज्ञानशक्तिः क्रिया शक्तिः बुद्धिः प्राणश्च तैजसौ ।
श्रोत्रं त्वग्घ्राणदृग्जिह्वावाग्दोर्मेढ्राङ्घ्रिपायवः
॥३१॥
यदैतेऽसङ्गता
भावा
भूतेन्द्रियमनो
गुणाः ।
यदाऽऽयतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥३२॥
तदा
संहत्य
चान्योन्यं
भगवच्छक्ति
चोदिताः ।
सदसत्त्वमुपादाय
चोभयं
ससृजुर्ह्यदः
॥३३॥
वर्षपूगसहस्रान्ते
तदण्डमुदकेशयम् ।
कालकर्मस्वभावस्थो जीवोऽजीवमजीवयत्
॥३४॥
स
एव
पुरुषः
तस्मादण्डं
निर्भिद्य
निर्गतः ।
सहस्रोर्वङ्घ्रि
बाह्वक्षः सहस्राननशीर्षवान्
॥३५॥
यस्येहा
वयवैर्लोकान्
कल्पयन्ति
मनीषिणः ।
कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः
॥३६॥
पुरुषस्य
मुखं
ब्रह्म
क्षत्रमेतस्य
बाहवः ।
ऊर्वो र्वैश्यो भगवतः पद्भ्यां शूद्रोऽभ्यजायत
॥३७॥
भूर्लोकः
कल्पितः
पद्भ्यां
भुवर्लोकोऽस्य
नाभितः ।
हृदा स्वर्लोक उरसा महर्लोको महात्मनः ॥३८॥
ग्रीवायां जनलोकोऽस्य तपोलोकः स्तनद्वयात् ।
मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः ॥३९॥
तत्कट्यां चातलं कॢप्तं ऊरूभ्यां वितलं विभोः ।
जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ॥४०॥
महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् ।
पातालं पादतलत इति लोकमयः पुमान् ॥४१॥
भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः ।
स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना ॥४२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
द्वितीयस्कंधे पञ्चमोऽध्यायः ॥५॥