श्रीमद्भागवत srimadbhagwat bhagwat भागवत भागवत_श्लोक bhagwat_shloka सूरज_कृष्ण_शास्त्री भागवत_कथा मूल_पाठ मूल_पाठ_भागवत bhagwat_katha bhagwatdarshan
![]() |
bhagwat chapter 2.2 |
॥ श्रीशुक उवाच ॥
एवं पुराधारणयाऽऽत्मयोनिः
नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् ।
तथा ससर्जेदममोघदृष्टिः
यथाप्ययात्प्राक् व्यवसायबुद्धिः
॥१॥
शाब्दस्य
हि
ब्रह्मण
एष
पन्था
यन्नामभिर्ध्यायति धीरपार्थैः ।
परिभ्रमन् तत्र न विन्दतेऽर्थान्
मायामये वासनयाशयानः ॥२॥
अतः
कविर्नामसु
यावदर्थः
स्यादप्रमत्तो
व्यवसायबुद्धिः ।
सिद्धेऽन्यथार्थे न यतेत तत्र
परिश्रमं तत्र समीक्षमाणः ॥३॥
सत्यांक्षितौ किं कशिपोः प्रयासैः
बाहौ स्वसिद्धे ह्युपबर्हणैः किम् ।
सत्यञ्जलौ किं पुरुधान्नपात्र्या
दिग्वल्कलादौ सति किं दुकूलैः ॥४॥
चीराणि
किं
पथि
न
सन्ति
दिशन्ति
भिक्षां
नैवाङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन् ।
रुद्धा गुहाः किमजितोऽवति नोपसन्नान्
कस्माद् भजंति कवयो धनदुर्मदान्धान् ॥५॥
एवं
स्वचित्ते
स्वत
एव
सिद्ध
आत्मा प्रियोऽर्थो
भगवाननन्तः ।
तं निर्वृतो नियतार्थो भजेत
संसारहेतूपरमश्च यत्र ॥६॥
कस्तां त्वनादृत्य परानुचिन्तां
ऋते पशूनसतीं नाम कुर्यात् ।
पश्यञ्जनं पतितं वैतरण्यां
स्वकर्मजान् परितापाञ्जुषाणम् ॥७॥
केचित्स्वदेहान्तर्हृदयावकाशे
प्रादेशमात्रं पुरुषं वसन्तम् ।
चतुर्भुजं कञ्जरथाङ्गशङ्ख
गदाधरं धारणया स्मरन्ति ॥८॥
प्रसन्नवक्त्रं
नलिनायतेक्षणं
कदम्बकिञ्जल्कपिशङ्गवाससम् ।
लसन्महारत्नहिरण्मयाङ्गदं
स्फुरन्महारत्नकिरीटकुण्डलम्
॥९॥
उन्निद्रहृत्पङ्कजकर्णिकालये
योगेश्वरास्थापितपादपल्लवम् ।
श्रीलक्षणं कौस्तुभरत्नकन्धरं
अम्लानलक्ष्म्या वनमालयाचितम्
॥१०॥
विभूषितं
मेखलयाऽङ्गुलीयकैः
महाधनैर्नूपुरकङ्कणादिभिः ।
स्निग्धामलाकुञ्चितनीलकुन्तलैः
विरोचमानाननहासपेशलम् ॥११॥
अदीनलीला हसितेक्षणोल्लसद्
भ्रूभङ्गसंसूचित भूर्यनुग्रहम् ।
ईक्षेत चिन्तामयमेनमीश्वरं
यावन्मनोधारणयाऽवतिष्ठते
॥१२॥
एकैकशोऽङ्गानिधियानुभावयेत्
पादादि
यावद्
हसितं
गदाभृतः ।
जितं जितं स्थानमपोह्य धारयेत्
परं परं शुद्ध्यति धीर्यथा यथा ॥१३॥
यावन्न
जायेत
परावरेऽस्मिन्
विश्वेश्वरे द्रष्टरि भक्तियोगः ।
तावत्स्थवीयः पुरुषस्य रूपं
क्रियावसाने प्रयतः स्मरेत ॥१४॥
स्थिरं
सुखं
चासनमास्थितो
यतिः
यदा जिहासुरिममङ्ग लोकम् ।
काले च देशे च मनो न सज्जयेत्
प्राणान्नि यच्छेन्मनसाजितासुः
॥१५॥
मनः
स्वबुद्ध्याऽमलया
नियम्य
क्षेत्रज्ञ
एतां
निनयेत्
तमात्मनि ।
आत्मानमात्मन्यवरुध्य धीरो
लब्धोपशान्तिर्विरमेत कृत्यात्
॥१६॥
न
यत्र
कालोऽनिमिषां
परः
प्रभुः
कुतो नु देवा जगतां य
ईशिरे ।
न यत्र सत्त्वं न रजस्तमश्च
न वै विकारो न महान् प्रधानम्
॥१७॥
परं
पदं
वैष्णवमामनन्ति
तद्
यन्नेति नेतीत्यतदुत्सिसृक्षवः ।
विसृज्य दौरात्म्यमनन्यसौहृदा
हृदोपगुह्यार्हपदं पदे पदे ॥१८॥
इत्थं मुनिस्तूपरमेद्व्यवस्थितो
विज्ञानदृग्वीर्य सुरन्धिताशयः ।
स्वपार्ष्णिनाऽपीड्य गुदं ततोऽनिलं
स्थानेषु षट्सून्नमयेज्जितक्लमः ॥१९॥
नाभ्यां
स्थितं
हृद्यधिरोप्य
तस्माद्
उदुदानगत्योरसि तं नयेन्मुनिः ।
ततोऽनुसन्धाय धियामनस्वी
स्वतालुमूलं शनकैर्नयेत ॥२०॥
तस्माद्भ्रुवोरन्तरमुन्नयेत
निरुद्धसप्तायतनोऽनपेक्षः ।
स्थित्वा मुहूर्तार्धमकुण्ठदृष्टिः
निर्भिद्य मूर्धन्विसृजेत्परं गतः
॥२१॥
यदि
प्रयास्यन्नृपपारमेष्ठ्यं
वैहायसानामुत
यद्विहारम् ।
अष्टाधिपत्यं गुणसन्निवाये
सहैव गच्छेन्मनसेन्द्रियैश्च ॥२२॥
योगेश्वराणां
गतिमाहुरन्तः
बहिस्त्रिलोक्याः
पवनान्तरात्मनाम् ।
न कर्मभिस्तां गतिमाप्नुवन्ति
विद्या तपोयोगसमाधि भाजाम् ॥२३॥
वैश्वानरं
याति
विहायसा
गतः
सुषुम्नया
ब्रह्मपथेन
शोचिषा ।
विधूतकल्कोऽथ हरेरुदस्तात्
प्रयाति चक्रं नृप शैशुमारम् ॥२४॥
(योऽन्तः
पचति
भूतानां
यस्तपत्यण्डमध्यगः ।
सोऽग्निर्वैश्वानरो
मार्गो
देवानां
पितृणां
मुनेः
॥
देवयानं
पिङ्गलाभिः
हन्येति
शतायुषा ।
रात्रीरिडाभिः पितृणां विषुवत्तां सुषुम्नया
॥ )
तद्विश्वनाभिं
त्वतिवर्त्य
विष्णोः
अणीयसा
विरजेनात्मनैकः ।
नमस्कृतं ब्रह्मविदामुपैति
कल्पायुषो यद्विबुधा रमन्ते
॥२५॥
अथो
अनन्तस्य
मुखानलेन
दन्दह्यमानं
स
निरीक्ष्य
विश्वम् ।
निर्याति सिद्धेश्वरयुष्टधिष्ण्यं
यद्द्वैपरार्ध्यं तदुपारमेष्ठ्यम्
॥२६॥
न
यत्र
शोको
न
जरा
न
मृत्युः
नार्तिर्नचोद्वेग ऋते
कुतश्चित् ।
यच्चित्ततोऽदः कृपयानिदं विदां
दुरन्तदुःखप्रभवानुदर्शनात् ॥२७॥
ततो
विशेषं
प्रतिपद्य
निर्भयः
तेनात्मनापोऽनलमूर्तिरत्वरन् ।
ज्योतिर्मयो वायुमुपेत्य काले
वाय्वात्मना खं बृहदात्मलिङ्गम्
॥२८॥
घ्राणेन
गन्धं
रसनेन
वै
रसं
रूपं
च
दृष्ट्या
श्वसनं
त्वचैव ।
श्रोत्रेण चोपेत्य नभो गुणत्वं
प्राणेन चाकूतिमुपैति योगी ॥२९॥
स भूतसूक्ष्मेन्द्रियसन्निकर्षं
मनोमयं देवमयं विकार्यम् ।
संसाद्यगत्या सह तेन याति
विज्ञानतत्त्वं गुणसंनिरोधम् ॥३०॥
तेनात्मनात्मानमुपैति शान्तं
आनन्दमानन्दमयोऽवसाने ।
एतां गतिं भागवतीं गतो यः
स वै पुनर्नेह विषज्जतेऽङ्ग ॥३१॥
एते सृती ते नृप वेदगीते
त्वयाभिपृष्टे च सनातने च ।
ये वै पुरा ब्रह्मण आह तुष्ट
आराधितो भगवान् वासुदेवः ॥३२॥
न ह्यतोऽन्यः शिवः पन्था विशतः संसृताविह ।
वासुदेवे भगवति भक्ति योगो यतो भवेत् ॥३३॥
भगवान्ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया ।
तदध्यवस्यत्कूटस्थो रतिरात्मन् यतो भवेत् ॥३४॥
भगवान् सर्वभूतेषु लक्षितः स्वात्मना हरिः ।
दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैः अनुमापकैः ॥३५॥
तस्मात्सर्वात्मना राजन् हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् ॥३६॥
पिबन्ति ये भगवत आत्मनः
सतां
कथामृतं श्रवणपुटेषु सम्भृतम् ।
पुनन्ति ते विषयविदूषिताशयं
व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥३७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
द्वितीयस्कंधे द्वितीयोऽध्यायः ॥२॥