JIC LECTURER SOLVED SANSKRIT PAPER 2020 Part II / भाग- II SANSKRIT (41 to 120) / संस्कृत (41 से 120 तक) 41. 'यज्...
JIC LECTURER SOLVED SANSKRIT PAPER 2020 Part II / भाग- II SANSKRIT (41 to 120) / संस्कृत (41 से 120 तक)
41. 'यज्जाग्रतो दूरमुदैतिदैव' इत्यनेन सम्बद्ध सूक्तमस्ति -
(a) वाक्सूक्तम्
(b) शिवसङ्कल्पसूक्तम्
(c) नासदीयसूक्तम्
(d) यम-यमी सूक्तम्
42. अधोलिखितानि सुभाषितानि सम्बन्धित ग्रन्थेभ्यः सुमेलयन् शुद्धविकल्पं चिनुत -
सूची - I सूची – II
(A)समानी व आकूतिः समाना हृदयानि वः (1) बृहदारण्यकोपनिषद्
(B)सत्यं ज्ञानमनन्तं ब्रह्म (2) ऋग्वेदः
(C) संगच्छध्वं सं वदध्वं सं वो मनांसि जानताम् (3) शुक्ल यजुर्वेदः
(D) आत्मा वाऽऽरे दृष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः (4) तैत्तिरीयोपनिषद्
विकल्पा: -
A B C D
(a) 2 3 4 1
(b) 3 2 1 4
(c) 3 4 2 1
(d) 4 1 3 2
43. कठोपनिषदि नचिकेतसा याचितवरदानानि यथाक्रमं संयोज्य शुद्धं विकल्पं चिनुत -
(i) 'अग्निविद्या
(ii) आत्मतत्वज्ञान
(iii) पितृपरितोष
विकल्पाः -
(a) (iii), (i) एवं (ii)
(b) (i) (ii) एवं (iii)
(c) (ii) (iii)) एवं (i)
(d) (iii)), (ii) एवं (i)
44. 'विद्ययाऽमृतमश्नुते' उक्तेरस्या मूलस्त्रोतोऽस्ति -
(a) कठोपनिषद्
(b) वेदान्तसारः
(c) छान्दोग्योपनिषद्
(d) ईशावास्योपनिषद्
45. 'यं क्रन्दसी अवसा तस्तभाने' इत्यत्र 'अवसा' पदस्थ कोऽर्थः ?
(a) बलेन
(b) बलार्थम्
(c) कर्मणा
(d) रक्षणार्थम्
46. अधस्तनयुग्मानां समीचीनां तालिकां चिनुत -
सूची I सूची II
(A) ऋग्वेदः (1) काण्वशतपथम्
(B) यजुर्वेदः (2) ताण्ड्यमहाब्राहाणम्
(C) सामवेदः (3) गोपथब्राह्मणम्
(D) अथर्ववेदः (4) कौषीतकि ब्राह्मणम्
विकल्पाः -
A B C D
(a) 3 1 4 2
(b) 3 4 1 2
(c) 2 4 3 1
(d) 3 4 2 1
47. अधस्तनेषु युग्मं योजयन् विकल्पेषु समुचितमुत्तरं चिनुत -
सूची I सूची II
(A) य आत्मदा बलदा यस्य विश्व उपासते (1) विष्णुसूक्तम्
(B) यः पार्थिवानि विममे रजांसि (2) अग्निसूक्तम्
(C) आ नो भद्राः क्रतवो यन्तु विश्वतः (3) प्रजापतिसूक्तम्
(D) राजन्तमध्वराणां गोपामृतस्य दीदिविम् (4) विश्वेदेवासूक्तम्
विकल्पा -
A B C D
(a) 3 1 4 2
(b) 3 4 1 2
(c) 2 4 3 1
(d) 3 4 2 1
48. निरुक्तमिति वेदाङ्गस्य सम्बन्धोऽस्ति -
(a) ज्यौतिषशास्त्रेण
(b) मन्त्रोच्चारणेन
(c) पदनिर्वचनेन
(d) वैदिकयज्ञेन
49. नचिकेतसः पिता कस्य यज्ञस्य आयोजनं कृतवान् ?
(a) दशपूर्णमास यज्ञस्य
(b) विश्वजित् यज्ञस्य
(c) राजसूय यज्ञस्य
(d) सौत्रामणि यज्ञस्य
50. अधस्तनेषु कृष्णयजुर्वेदीया उपनिषद् नास्ति -
(a) तैत्तिरीयोपनिषद्
(b) कठोपनिषद
(c) केनोपनिषद्
(d) श्वेताश्वरोपनिषद्
51. अधस्तनेषु वाक्येषु सत्य विकल्प चिनुत -
(1) 'होता' इति अग्नेः विशेषणम्।
(2) 'मध्व उत्सः' इति विष्णोः पदे विद्यते।
(3) 'वृद्धश्रवाः' इति विश्वेदेवासूक्ते विद्यते।
विकल्पाः -
(a) (1). (2) एवं (3) असत्यमस्ति
(b) (1) एवं (2) सत्यम् एवं (3) असत्यम्
(c) (2) एवं (3) सत्यम् एवं (1) असत्यम्
(d) (1) (2) एवं (3) समीचीनानि सन्ति
52. 'अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि स इद्देवेषु गच्छति।' अस्य मन्त्रस्य ऋषिर्वर्तते -
(a) मधुच्छन्दा
(b) कण्वः
(c) सोमः
(d) वरुणः
53. सायणभाष्यसहितं ऋग्वेदं सर्वप्रथम यः सम्पादयामास सोऽस्ति पाश्चात्यविद्वान् -
(a) ओल्डेनबर्ग
(b) हिल्लेब्राण्ट
(c) मैक्समूलर:
(d) मैक्डोनल:
54. वैदिककालनिर्णये विद्वन्मतेषु शुद्धं विकल्पं चिनुत -
(1) मैक्समूलरमतेन - छन्दःकालः- मन्त्रकालः- ब्राह्मणकालः - सूत्रकालः
(2) लोकमान्यतिलकमतेन - अदितिकालः- मृगशिराकाल- कृतिकाकाल - सूत्रकालः
विकल्पाः -
(a) (1) सत्यमस्ति
(b) (2) सत्यमस्ति
(c) (1) एवं (2) असत्यकथनमस्ति
(d) (1) एवं (2) सत्यकथनमस्ति
55. 'प्रवीणः' इति पदं कयोः उदाहरणं वर्तते -
(1) अर्थसकोचस्य
(2)अर्थपरिवर्तनस्य
(3) अर्थविस्तारस्य
(4)अर्थहानेः
विकल्प चिनुत -
(a) (1) एवं (2)
(b) (1) एवं (3)
(c) (3) एवं (4)
(d) (2) एवं (3)
56. भगवद्गीतानुसार समत्वस्य शब्दार्थोऽस्ति -
(a) समतावादः
(b) समदर्शनम्
(c) समतायाः स्वभावः
(d) योगः
57. षड्विधसन्निकर्षेषु प्रथमः कः?
(a) संयोगः
(b) समवायः
(c) समवेतसमवायः
(d) संयुक्तसमवायः
58. अधोलिखितेषु वेदान्तमते असमीचीनं कथनं चिनुत -
(a) काम्यकर्माणि स्वर्गादिसाधनानि
(b) निषिद्धानि कर्माणि अनिष्टसाधनानि
(c) नित्यानि कर्माणि अनिष्टसाधनानि
(d) नैमित्तिकानि प्रायश्चित्तादीनि कर्माणि पापक्षयादिसाधनानि
59. वैशेषिकदर्शनानुसारं सप्तपदार्थेषु न गण्येते । शुद्धं विकल्पं चिनुत -
(1) पुरुषः
(2) विशेषः
(3) गुणः
(4) अहङ्कारः
विकल्पाः -
(a) (1) एवं (3)
(b) (2) एवं (3)
(c) (1) एवं (4)
(d) (3) एवं (4)
60. यस्य कार्यात् पूर्वभावो नियतोऽनन्यथासिद्धश्च तत् किम् ?
(a) कारणम्
(b) समवायिकारणम्
(c) असमवाधिकारणम्
(d) न किमपि पूर्वोक्तेषु
61. 'प्रदीपवच्चार्थतो वृत्तिः कस्य भवति ?
(a) पुरुषस्य
(b) गुणस्य
(c) प्रकृतेः
(d) मनसः
62. साख्यमतेऽधस्तनेषु प्रमाणं नास्ति -
(a) प्रत्यक्षम्
(b) अनुमानम्
(c) उपमानम्
(d) शब्दप्रमाणम्
63. 'दृष्टे साऽपार्था' इत्यत्र 'सा' पदस्य कोऽर्थः स्यात् ?
(a) जिज्ञासा
(b) दुःखम्
(c) व्यर्थम्
(d) प्रत्यक्षम्
64. अखिलबन्धरहितो ब्रह्मनिष्ठः कोऽस्ति ?
(a) प्राज्ञः
(b) अधिकारी
(c) ईश्वर:
(d) जीवन्मुक्त:
65. गीतानुसारं 'स्थितप्रज्ञः' कीदृशो न भवति ?
(a) आत्मन्येवात्मनातुष्टः
(b) सुखेषु विगतस्पृहः
(c) वीतरागभयक्रोधः
(d) दुःखेष्वनुद्विग्नमनाः
66. 'पुष्पेभ्यः स्पृहयति' इत्यत्र सम्प्रदानसंज्ञाविधायकं सूत्रमस्ति -
(a) चतुर्थी सम्प्रदाने
(b) रुच्यर्थानां प्रीयमाणः
(c) स्पृहेरीप्सितः
(d) क्रुधद्रुहोरुपसृष्ट्योः कर्म
67. 'जगतः कर्त्ता' इत्यत्र जगतः पदे सूत्र निर्देशः करणीयः -
(a) भुवः प्रभवश्च
(b) कृत्यानां कर्तरि वा
(c) षष्ठी
(d) कर्तृकर्मणोः कृत िः
68. अधोविन्यस्तयुग्मानां परस्परं सुमेलनं कृत्वा शुद्धं विकल्पं चिनुत -
सूची - I सूची – II
(A) हरये रोचते भक्तिः । (1) वारणार्थानामीप्सितः
(B) अह्ना क्रोशेन वा अनुवाकोऽधीतः (2) रुच्यर्थानां प्रीयमाणः
(C) अभिनिविशते सन्मार्गम्। (3) अपवर्गे तृतीया
(D) यवेभ्यो गां वारयति । (4) अभिनिविशश्च
विकल्पाः -
A B C D
(a) 2 3 4 1
(b) 2 3 1 4
(c) 4 1 3 2
(d) 3 2 4 1
69. अधोलिखितेषु पदेषु प्रत्ययान् परस्परं सुमेलयन् शुद्धं विकल्पं चिनुत -
सूची - I सूची – II
(A) गृहम् (1) ष्ट्रन्
(B) मृज्य: (2) क
(C) नन्दनः (3) ल्यु
(D) नेत्रम् (4) क्यप्
विकल्पाः -
A B C D
(a) 3 4 2 1
(b) 2 4 1 3
(c) 2 4 3 1
(d) 4 2 3 1
70. 'निर्जनः' इति पदे समासविग्रहः स्यात् -
(a) नास्ति जनः यत्र सः ।
(b) निर्गताः जनाः यस्मात् सः ।
(c) निष्कान्त जनैः यः सः ।
(d) नष्टाः जनाः यत्र सः ।
71. अश्वपत्यादिभ्यश्च इति सूत्रेण निष्पन्न पदम् -
(a) आदित्यः
(b) दैत्यः
(c) आश्वपतम्
(d) औपगवः
72. ग्रामीणपदे कः प्रत्यय: ?
(a) खश्
(b) ठक्
(c) ठञ्
(d) खञ्
73. 'भू' धातोः आशीर्लिङ्लकारस्य प्रथमपुरुष-एकवचने रूपमस्ति -
(a) भूयास्म
(b) भूयासुः
(c) भूयास्त
(d) भूयात्
74. "अद्' धातो. लोट् लकारे उत्तमपुरुषबहुवचनरूपं भवति -
(a) अदाम
(b) अदमाम
(c) अद्मानि
(d) अद्मि
75. अधोलिखितसूचीद्वयं सुमेलयन् शुद्धं विकल्पं चिनोतु -
सूची - 1 सूची II
(A) प्रातिपदिकम् (1) आदैच्
(B) वृद्धिः (2) सुप्तिङन्तं
(C) पदम् (3) अचोऽन्त्यादि
(D) टि (4) अर्थवदधातुरप्रत्ययः
विकल्पाः -
A B C D
(a) 2 1 3 4
(b) 3 2 1 4
(c) 4 1 2 3
(d) 1 3 2 4
76. पूर्वरूपसन्धेरुदाहरणमस्ति -
(a) वाप्यश्वः
(b) गौर्यो
(c) हरेऽव
(d) प्रेजते
77. छत्रोपाहनम् पदे समासोऽस्ति -
(a) अव्ययीभावः
(b) द्वन्द्वः
(c) तत्पुरुषः
(d) कर्मधारयः
78. तौ नगरं पश्यतः' इत्यस्य वाक्यस्य कर्मवाच्यो भविष्यति -
(a) ताभ्यां नगरं दृश्येते ।
(b) ताभ्यां नगरं दृश्यते ।
(c) ताभ्यां नगराणि दृश्यन्ते ।
(d) तौ नगरं दृश्येते ।
79. 'वोतो गुणवचनात्' सूत्रस्योदाहरणमस्ति -
(a) बह्वी
(b) शकटी
(c) मृद्वी
(d) भवानी
80. 'तादर्थ्ये चतुर्थी वाच्या' वार्तिकस्योदाहरणमस्ति -
(a) वाताय कपिला विद्युत् ।
(b) विप्राय गां ददाति ।
(c) मुक्तये हरिं भजति ।
(d) ब्राह्मणाय हितम् ।
81. नित्यनपुंसकलिङ्गे एकवचने समासो प्रयुक्तो भवति -
(a) कर्मधारयः
(b) अव्ययीभावः
(c) द्वन्द्वः
(d) द्विगुः
82. राधा पत्रं लेखिष्यति। इति वाक्यस्य वाच्यपरिवर्तने लेख्यं रूपं भवति -
(a) पत्रे राधा लेखिष्यति
(b) राधया पत्रं लेखिष्यते।
(c) पत्रेण राधया लिखिष्यते।
(d) राधायाः पत्रं लेखिष्यते
83. लोपसंज्ञा विधायकं सूत्रमस्ति -
(a) तस्य लोपः
(b) हलन्त्यम्
(c) अदर्शनं लोपः
(d) आदिरन्त्येन सहेता
84. 'ॠहलोर्ण्यत् इति सूत्रस्योदाहरणमस्ति -
(a) हार्यम्
(b) लभ्यम्
(c) स्तुत्यः
(d) मृज्यः
85. लक्ष्मीच्छाया इत्यत्र केन सूत्रेण तुगागमः जातः?
(a) पदान्ताद् वा
(b) छे च
(c) शि तुक्
(d) न कोऽपि पूर्वेषु
86. अधोलिखितं युग्मद्वयं सुमेलयन शुद्ध विकल्प चिनुत -
सूची - I सूची II
(A) प्रवीण (1) अर्थविस्तारः
(B) पृथिवी (2) अर्थादेशः
(C) आकाशवाणी (3) अर्थसङ्कोचः
(D) देवानां प्रियः (4) अर्थापकर्षः
विकल्पाः -
A B C D
(a) 1 4 3 2
(b) 4 2 1 3
(c) 2 1 3 4
(d) 1 3 2 4
87. साहित्यिकदृष्ट्या सर्वाधिकः समृद्धभाषापरिवारोऽस्ति -
(a) द्रविड परिवारः
(b) अमरीकी परिवारः
(c) भारोपीय परिवारः
(d) काकेशी परिवारः
88. अधोलिखितेषु आर्यभाषापरिवारे न स्वीक्रियते -
(a) प्राकृतम्
(b) तमिलभाषा
(c) संस्कृतम्
(d) पालि
89. अधोलिखितसुभाषितानि सम्बन्धितग्रन्थैः सह सम्मेल्य शुद्धं विकल्पं चिनुत -
सूची-1 सूची - 11
(A) मम विरहजा न त्वं वत्से शुचं गणयिष्यति (1) उत्तररामचरितम्
(B) यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः (2) मृच्छकटिकम्
(C) भाग्यक्रमेण हि धनानि भवन्ति यान्ति (3) रत्नावली
(D) आभाति मकरकेतोः पार्श्वस्था चापयष्टिरिव (4) अभिज्ञानशाकुन्तलम्
विकल्पाः -
A B C D
(a) 2 3 4 1
(b) 4 1 2 3
(c) 3 4 1 2
(d) 1 2 3 4
90. ध्वनिनियमप्रवर्तकाः यथाक्रमं संयोजनीयः शुद्धं विकल्पं च चिनुत -
(1) ग्रासमाननियमः
(2) ग्रिमनियमः
(3) वर्नरनियमः
(4) तालव्यनियमः
विकल्पाः -
A B C D
(a) 3 2 1 4
(b) 2 1 3 4
(c) 4 2 1 3
(d) 3 4 2 1
91. अधोलिखितेषु युग्मेषु विषममस्ति -
(a) स्थूलशरीरम् (i) आनन्दमयकोशः
(b) विज्ञानमयकोशः (ii) बुद्धि ज्ञानेन्द्रियाणि च
(c) मनोमयकोश: (iii) मनः ज्ञानेन्द्रियाणि च
(d) प्राणमयकोशः (iv) वायुः कर्मेन्द्रियाणि च
92. व्याप्तिबलेनार्थगमकं किम् अस्ति?
(a) परामर्श:
(b) प्रमाणम्
(c) लिङ्गम्
(d) जाति:
93. 'क्रोधाद्भवति' इति अस्ति -
(a) स्मृतिविभ्रमः
(b) बुद्धिनाश:
(c) सम्मोहः
(d) प्राणनाशः
94. नैयायिकमते साक्षात्कारिप्रमाकरणमस्ति -
(a) अनुमानम्
(b) परामर्श:
(c) लिङ्गम्
(d) प्रत्यक्षम्
95. 'नयवादो' विचारयुतः सिद्धान्तोऽस्ति -
(a) चार्वाकदर्शनस्य
(b) जैनदर्शनस्य
(c) सांख्यदर्शनस्य
(d) बौद्धदर्शनस्य
96. अधोलिखितानां कथनानां सत्यासत्यपर्यायं चिनुत -
(1) ज्ञान करणम् - यदा निर्विकल्पकरूपा प्रभा फलम्।
(2) इन्द्रियार्थसन्निकर्ष करणम् - निर्विकल्पकरूपा प्रभा फलम्।
(a) (1) सत्यमस्ति
(b) (2) सत्यमस्ति
(c) (1) एवं (2) सत्यमस्ति
(d) (1) एवं (2) असत्यमस्ति
97. 'नैरात्म्यवादः सिद्धान्तोऽस्ति -
(a) जैनदर्शनस्य
(b) वेदान्तदर्शनस्य
(c) चार्वाकदर्शनस्य
(d) बौद्धदर्शनस्य
98. बौद्धदर्शनस्य मान्यः सिद्धान्तोऽस्ति -
(a) स्यादवादः
(b) प्रतीत्यसमुत्पादवादः
(c) मायावाद,
(d) आत्मवादः
99. सांख्यमतानुसारेण अतीन्द्रियपदार्थानां सिद्धि केन प्रमाणेन भवति?
(a) शेषवदनुमानेन
(b) सामान्यतोदृष्टानुमानेन
(c) पूर्ववदनुमानेन
(d) प्रत्यक्षप्रमाणेन
100. तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् इति वचनं कं प्रति केन कथितम् ?
(a) अर्जुनेन कृष्णं प्रति
(b) भीमेन अर्जुनं प्रति
(c) कृष्णेन अर्जुनं प्रति
(d) भीष्मेन कृष्णं प्रति
101. काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वः
तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये ।
केचिद्वाचां स्थितमविषये तत्वमूचुस्तदीयं
तेन ब्रूमः सहृदयमनः प्रीतये तत्स्वरूपम् ।।
इत्यस्यां कारिकायां प्रतिपाद्यविषयान् यथाक्रमं संयोज्य शुद्धं विकल्पं चिनुत -
(i) भाक्तवादी
(ii) अशक्यवक्तव्यतावादी
(iii) अभाववादी
विकल्पाः -
(a) (iii), (i) एवं (ii)
(b) (1), (ii) एवं (iii)
(c) (ii), (iii) एवं (i)
(d) (iii). (ii) एवं (i)
102. अधोलिखितं सूचीद्वयं सुमेलयन् शुद्धं विकल्पं चिनुत -
सूची I सूची II
(A) बीजम् (1) रहस्यं कथ्यतेऽन्यस्य परावृत्त्य............।
(B) नियताप्तिः (2) सामान्यगुणयुक्तस्तु.....द्विजादिकः ।
(C) अपवारितम् (3) स्वल्पोद्दिष्टस्तु तद्धेतुः........ विस्तार्यनेकथा।
(D) धीरप्रशान्त (4)अपायाभावतः प्राप्तिः......... सुनिश्चिता।
विकल्पाः -
A B C D
(a) 4 1 2 3
(b) 1 2 3 4
(c) 2 3 4 1
(d) 3 4 1 2
103. अधस्तनयुग्मानां समुचितां तालिकां संयोज्य शुद्धं विकल्पं चिनुत -
सूची - I सूची - II
(A) उपादान लक्षणा (1) गङ्गायां घोषः
(B) लक्षणलक्षणा (2) गौर्वाहीक:
(C) सारोपालक्षणा (3) गौरयम्
(D) साध्यवसानालक्षणा (4) यष्टयः प्रविशन्ति
विकल्पाः -
A B C D
(a) 4 1 2 3
(b) 4 2 3 1
(c) 4 3 2 1
(d) 1 2 4 3
104. अधस्तनयुग्मानां समुचितां तालिकां योजयन् शुद्धं विकल्पं चिनुत -
सूची - I सूची II
(A) भामहः (1) रमणीयार्थ-प्रतिपादकः शब्दः काव्यम्।
(B) पं. जगन्नाथः (2) शब्दार्थौ निर्दोषौ सगुणौ प्रायः सालङ्कारौ च काव्यम् ।
(C) मम्मटः (3) शब्दार्थी सहितौ काव्यं गद्यं पद्यं च तद् द्विधा
(D) वाग्भटः (4) तददोषौ शब्दार्थौ सगुणावनलंड्कृती पुनः क्वापि ।
विकल्पाः -
A B C D
(a) 3 1 4 2
(b) 2 1 4 3
(c) 1 3 4 2
(d) 3 2 4 1
105. रूपकभेदानामुदाहरणानि परस्परं सुमेलयन् शुद्धं विकल्पं चिनुत -
सूची I सूची - II
(A) समवकार: (1) सौगन्धिकाहरणम्
(B) व्यायोगः (2) त्रिपुरदाहः
(C) प्रहसनम्स (3) मुद्रमन्थनम्
(D) डिम: (4) कन्दर्पकेलि:
विकल्पाः –
A B C D
(a) 4 3 2 1
(b) 3 1 4 2
(c) 2 3 1 4
(d) 4 2 3 1
106. शुष्केन्धनाग्निवत् स्वच्छजलवत् सहसैव यः व्याप्नोति सः -
(a) प्रसादः
(b) माधुर्यम्
(c) ओजः
(d) लावण्यम्
107. यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।
यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।।
इत्यत्र कोऽलङ्कार ?
(a) लाटानुप्रासः
(b) छेकानुप्रासः
(c) यमकम्
(d) श्लेषः
108. मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
श्रृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥
इत्यत्र कोऽस्ति ?
(a) रसः
(b) रसाभासः
(c) भाव:
(d) न कोऽपि पूर्वेषु
109. शिशुपालवधमहाकाव्ये नारदः कस्य सन्देशं वासुदेवाय आनीतवान् ?
(a) विष्णोः
(b) इन्द्रस्य
(c) बृहस्पतेः
(d) कामदेवस्य
110. रघुवंशमहाकाव्ये वर्णितं देवदारु: केन पुत्रीकृतः?
(a) पार्वत्या
(b) इन्द्रेण
(c) दिलीपेन
(d) वृषभध्वजेन
111. 'न खलु धीमतां कश्चिदविषयो नाम' इति कथनम् अस्ति -
(a) सूत्रधारस्य
(b) माधव्यस्य
(c) शार्ङ्गरवस्य
(d) गौतम्याः
112. प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः ।
भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहस्त्रियः ।।
इत्यत्र श्लेषमाध्यमेन कस्य प्रशंसा कृताऽस्ति ?
(a) कविप्रशंसा
(b) स्वकुलप्रशंसा
(c) स्त्रीप्रशंसा, वाक्प्रशंसा, पुण्यभाजनस्य प्रशंसा
(d) आर्यावर्त प्रशंसा
113. मेघदूते वर्णित मेघः सम्मिश्रणमस्ति -
(a) धूमज्योतिसलिलमरुताम्
(b) धूमाग्निभूवारिणाम्
(c) धूमानलवाष्पवारिणाम्
(d) धूमज्योतिभूवारिणाम्
114. 'आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि' इति केनोक्तम् ?
(a) शकुन्तलया
(b) गौतम्या
(c) वैखानसेन
(d) दुष्यन्तेन
115. 'यत् सौहृदादपि जनाः शिथिलीभवन्ति' मृच्छकटिके केन कथितम्?
(a) माथुरेण
(b) शकारेण
(c) सूत्रधारेण
(d) चारुदत्तेन
116. हितोपदेशे 'व्याघ्रगर्दभकथा' विद्यते -
(a) सुहृद्भेदे
(b) सन्धौ
(c) मित्रलाभे
(d) विग्रहे
117. 'नाह मूर्तिं विक्रीणामि किन्तु भिनद्मि' शिवराजविजये केनोक्तम्?
(a) शहाबुद्दीनेन
(b) औरङ्गजेबेन
(c) महमूदगजनव्या
(d) कुतुबुददीनेन
118. 'अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम्' सूक्तिरियमुद्धृताऽस्ति -
(a) शिवराजविजयात्
(b) शिशुपालवधात्
(c) किरातार्जुनीयात्
(d) नीतिशतकात्
119. 'क्रियासु युक्तैर्नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः । इत्यस्मिन् 'चारचक्षुषः' पदे समासोऽस्ति-
(a) द्विगुः
(b) बहुव्रीहिः
(c) अव्ययीभावः
(d) तत्पुरुषः
120. उत्तररामचरिते वर्णिते द्वितीयाङ्के विष्कम्भकसमाप्त्यनन्तरं रङ्गमञ्चे कः प्रविशति ?
(a) सीता
(b) रामभद्रो
(c) तमसा
(d) शम्बूक