भागवत प्रथम स्कन्ध पञ्चम अध्याय (bhagwat 1.5)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 1.5
bhagwat chapter 1.5

           सूत उवाच

अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः ।

देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव ॥ १ ॥

           नारद उवाच

पाराशर्य महाभाग भवतः कच्चिदात्मना ।

परितुष्यति शारीर आत्मा मानस एव वा ॥ २ ॥

जिज्ञासितं सुसंपन्नं अपि ते महदद्‍भुतम् ।

कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ ३ ॥

जिज्ञासितमधीतं च यत्तद् ब्रह्म सनातनम् ।

तथापि शोचस्यात्मानं अकृतार्थ इव प्रभो ॥ ४ ॥

         व्यास उवाच

अस्त्येव मे सर्वमिदं त्वयोक्तं

     तथापि नात्मा परितुष्यते मे ।

तन्मूलमव्यक्तमगाधबोधं

     पृच्छामहे त्वात्मभवात्मभूतम् ॥ ५ ॥

स वै भवान् वेद समस्तगुह्यं

     उपासितो यत्पुरुषः पुराणः ।

परावरेशो मनसैव विश्वं

     सृजत्यवत्यत्ति गुणैरसङ्गः ॥ ६ ॥

त्वं पर्यटन्नर्क इव त्रिलोकीं

     अन्तश्चरो वायुरिवात्मसाक्षी ।

परावरे ब्रह्मणि धर्मतो व्रतैः

     स्नातस्य मे न्यूनमलं विचक्ष्व ॥ ७ ॥

           श्रीनारद उवाच

भवतानुदितप्रायं यशो भगवतोऽमलम् ।

येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ ८ ॥

यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः ।

न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ ९ ॥

न यद् वचश्चित्रपदं हरेर्यशो

     जगत्पवित्रं प्रगृणीत कर्हिचित् ।

तद्वायसं तीर्थमुशन्ति मानसा

     न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥ १० ॥

तद्वाग्विसर्गो जनताघविप्लवो

     यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।

नामान्यनन्तस्य यशोऽङ्‌कितानि यत्

     श्रृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ११ ॥

नैष्कर्म्यमप्यच्युतभाववर्जितं

     न शोभते ज्ञानमलं निरञ्जनम् ।

कुतः पुनः शश्वदभद्रमीश्वरे

     न चार्पितं कर्म यदप्यकारणम् ॥ १२ ॥

अथो महाभाग भवानमोघदृक्

     शुचिश्रवाः सत्यरतो धृतव्रतः ।

उरुक्रमस्याखिलबंधमुक्तये

     समाधिनानुस्मर तद्‌विचेष्टितम् ॥ १३ ॥

ततोऽन्यथा किञ्चन यद्‌विवक्षतः

     पृथग् दृशस्तत् कृतरूपनामभिः ।

न कर्हिचित् क्वापि च दुःस्थिता मतिः

     लभेत वाताहतनौरिवास्पदम् ॥ १४ ॥

जुगुप्सितं धर्मकृतेऽनुशासतः

     स्वभावरक्तस्य महान् व्यतिक्रमः ।

यद्‌वाक्यतो धर्म इतीतरः स्थितो

     न मन्यते तस्य निवारणं जनः ॥ १५ ॥

विचक्षणोऽस्यार्हति वेदितुं विभोः

     अनन्तपारस्य निवृत्तितः सुखम् ।

प्रवर्तमानस्य गुणैरनात्मनः

     ततो भवान् दर्शय चेष्टितं विभोः ॥ १६ ॥

त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेः

     भजन् अपक्वोऽथ पतेत् ततो यदि ।

यत्र क्व वाभद्रमभूदमुष्य किं

     को वार्थ आप्तोऽभजतां स्वधर्मतः ॥ १७ ॥

तस्यैव हेतोः प्रयतेत कोविदो

     न लभ्यते यद्‍भ्रमतामुपर्यधः ।

तल्लभ्यते दुःखवदन्यतः सुखं

     कालेन सर्वत्र गभीररंहसा ॥ १८ ॥

न वै जनो जातु कथञ्चनाव्रजेत्

     मुकुंदसेव्यन्यवदङ्ग संसृतिम् ।

स्मरन् मुकुंदाङ्घ्र्युपगूहनं पुनः

     विहातुमिच्छेन्न रसग्रहो जनः ॥ १९ ॥

इदं हि विश्वं भगवानिवेतरो

     यतो जगत्स्थाननिरोधसंभवाः ।

तद्धि स्वयं वेद भवांस्तथापि वै

     प्रादेशमात्रं भवतः प्रदर्शितम् ॥ २० ॥

त्वमात्मनात्मानमवेह्यमोघदृक्

     परस्य पुंसः परमात्मनः कलाम् ।

अजं प्रजातं जगतः शिवाय तन्

     महानुभावाभ्युदयोऽधिगण्यताम् ॥ २१ ॥

इदं हि पुंसस्तपसः श्रुतस्य वा

     स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः ।

अविच्युतोऽर्थः कविभिर्निरूपितो

     यदुत्तमश्लोक गुणानुवर्णनम् ॥ २२ ॥

अहं पुरातीतभवेऽभवं मुने

     दास्यास्तु कस्याश्चन वेदवादिनाम् ।

निरूपितो बालक एव योगिनां

     शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ २३ ॥

ते मय्यपेताखिलचापलेऽर्भके

     दान्तेऽधृतक्रीडनकेऽनुवर्तिनि ।

चक्रुः कृपां यद्यपि तुल्यदर्शनाः

     शुश्रूषमाणे मुनयोऽल्पभाषिणि ॥ २४ ॥

उच्छिष्टलेपाननुमोदितो द्विजैः

     सकृत्स्म भुञ्जे तदपास्तकिल्बिषः ।

एवं प्रवृत्तस्य विशुद्धचेतसः

     तद्धर्म एवात्मरुचिः प्रजायते ॥ २५ ॥

तत्रान्वहं कृष्णकथाः प्रगायतां

     अनुग्रहेणाश्रृणवं मनोहराः ।

ताः श्रद्धया मेऽनुपदं विश्रृण्वतः

     प्रियश्रवस्यङ्ग ममाभवद् रुचिः ॥ २६ ॥

तस्मिंस्तदा लब्धरुचेर्महामते

     प्रियश्रवस्यस्खलिता मतिर्मम ।

ययाहमेतत् सदसत्स्वमायया

     पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७ ॥

इत्थं शरत् प्रावृषिकावृतू हरेः

     विश्रृण्वतो मेऽनुसवं यशोऽमलम् ।

सङ्कीर्त्यमानं मुनिभिर्महात्मभिः

     भक्तिः प्रवृत्ताऽऽत्मरजस्तमोपहा ॥ २८ ॥

तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः ।

श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ २९ ॥

ज्ञानं गुह्यतमं यत्तत् साक्षाद्‍भगवतोदितम् ।

अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥ ३० ॥

येनैवाहं भगवतो वासुदेवस्य वेधसः ।

मायानुभावमविदं येन गच्छन्ति तत्पदम् ॥ ३१ ॥

एतत् संसूचितं ब्रह्मन् तापत्रयचिकित्सितम् ।

यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२ ॥

आमयो यश्च भूतानां जायते येन सुव्रत ।

तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ ३३ ॥

एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः ।

त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥ ३४ ॥

यदत्र क्रियते कर्म भगवत् परितोषणम् ।

ज्ञानं यत् तद् अधीनं हि भक्तियोगसमन्वितम् ॥ ३५ ॥

कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् ।

गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ ३६ ॥

नमो भगवते तुभ्यं वासुदेवाय धीमहि ।

प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ ३७ ॥

इति मूर्त्यभिधानेन मंत्रमूर्तिममूर्तिकम् ।

यजते यज्ञपुरुषं स सम्यग् दर्शनः पुमान् ॥ ३८ ॥

इमं स्वनिगमं ब्रह्मन् अवेत्य मदनुष्ठितम् ।

अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः ॥ ३९ ॥

त्वमप्यदभ्रश्रुत विश्रुतं विभोः

     समाप्यते येन विदां बुभुत्सितम् ।

प्राख्याहि दुःखैर्मुहुरर्दितात्मनां

     संक्लेशनिर्वाणमुशन्ति नान्यथा ॥ ४० ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे व्यासनारदसंवादे पञ्चमोऽध्यायः ॥ ५ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!