भागवत प्रथम स्कन्ध षष्ठम अध्याय (bhagwat 1.6)

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 1.6
bhagwat chapter 1.6


            सूत उवाच

एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च ।

भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ॥। १ ॥

           व्यास उवाच

भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव ।

वर्तमानो वयस्याद्ये ततः किमकरोद्‍भवान् ॥। २ ॥

स्वायंभुव कया वृत्त्या वर्तितं ते परं वयः ।

कथं चेदमुदस्राक्षीः काले प्राप्ते कलेवरम् ॥। ३ ॥

प्राक्कल्पविषयामेतां स्मृतिं ते सुरसत्तम ।

न ह्येष व्यवधात्काल एष सर्वनिराकृतिः ॥। ४ ॥

           नारद उवाच

भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम ।

वर्तमानो वयस्याद्ये तत एतदकारषम् ॥। ५ ॥

एकात्मजा मे जननी योषिन्मूढा च किङ्करी ।

मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबंधनम् ॥। ६ ॥

सास्वतंत्रा न कल्पासीद् योगक्षेमं ममेच्छती ।

ईशस्य हि वशे लोको योषा दारुमयी यथा ॥। ७ ॥

अहं च तद्‍ब्रह्मकुले ऊषिवांस्तदपेक्षया ।

दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥। ८ ॥

एकदा निर्गतां गेहाद् दुहन्तीं निशि गां पथि ।

सर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितः ॥ ९ ॥

तदा तदहमीशस्य भक्तानां शमभीप्सतः ।

अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम् ॥ १० ॥

स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् ।

खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११ ॥

चित्रधातुविचित्राद्रीन् इभभग्नभुजद्रुमान् ।

जलाशयान् शिवजलान् नलिनीः सुरसेविताः ॥ १२ ॥

चित्रस्वनैः पत्ररथैः विभ्रमद् भ्रमरश्रियः ।

नलवेणुशरस्तम्ब कुशकीचकगह्वरम् ॥ १३ ॥

एक एवातियातोऽहं अद्राक्षं विपिनं महत् ।

घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ १४ ॥

परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः ।

स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः ॥ १५ ॥

तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रितः ।

आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १६ ॥

ध्यायतश्चरणांभोजं भावनिर्जितचेतसा ।

औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः ॥ १७ ॥

प्रेमातिभरनिर्भिन्न पुलकाङ्गोऽतिनिर्वृतः ।

आनंदसंप्लवे लीनो नापश्यमुभयं मुने ॥ १८ ॥

रूपं भगवतो यत्तन् मनःकान्तं शुचापहम् ।

अपश्यन् सहसोत्तस्थे वैक्लव्याद् दुर्मना इव ॥ १९ ॥

दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि ।

वीक्षमाणोऽपि नापश्यं अवितृप्त इवातुरः ॥ २० ॥

एवं यतन्तं विजने मामाहागोचरो गिराम् ।

गंभीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव ॥ २१ ॥

हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुमिहार्हति ।

अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २२ ॥

सकृद् यद् दर्शितं रूपं एतत्कामाय तेऽनघ ।

मत्कामः शनकैः साधु सर्वान् मुञ्चति हृच्छयान् ॥ २३ ॥

सत्सेवयाऽदीर्घया ते जाता मयि दृढा मतिः ।

हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २४ ॥

मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् ।

प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् ॥ २५ ॥

एतावदुक्त्वोपरराम तन्महद्

     भूतं नभोलिङ्गमलिङ्गमीश्वरम् ।

अहं च तस्मै महतां महीयसे

     शीर्ष्णावनामं विदधेऽनुकंपितः ॥ २६ ॥

नामान्यनन्तस्य हतत्रपः पठन्

     गुह्यानि भद्राणि कृतानि च स्मरन् ।

गां पर्यटन् तुष्टमना गतस्पृहः

     कालं प्रतीक्षन् विमदो विमत्सरः ॥ २७ ॥

एवं कृष्णमतेर्ब्रह्मन् असक्तस्यामलात्मनः ।

कालः प्रादुरभूत्काले तडित्सौदामनी यथा ॥ २८ ॥

प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।

आरब्धकर्मनिर्वाणो न्यपतत् पांचभौतिकः ॥ २९ ॥

कल्पान्त इदमादाय शयानेऽम्भस्युदन्वतः ।

शिशयिषोरनुप्राणं विविशेऽन्तरहं विभोः ॥ ३० ॥

सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः ।

मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे ॥ ३१ ॥

अंतर्बहिश्च लोकान् त्रीन् पर्येम्यस्कन्दितव्रतः ।

अनुग्रहात् महाविष्णोः अविघातगतिः क्वचित् ॥ ३२ ॥

देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् ।

मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३३ ॥

प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः ।

आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ ३४ ॥

एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः ।

भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥ ३५ ॥

यमादिभिर्योगपथैः कामलोभहतो मुहुः ।

मुकुंदसेवया यद्वत् तथात्माद्धा न शाम्यति ॥ ३६ ॥

सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ ।

जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ ३७ ॥

               सूत उवाच

एवं संभाष्य भगवान् नारदो वासवीसुतम् ।

आमंत्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः ॥ ३८ ॥

अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वनः ।

गायन्माद्यन्निदं तंत्र्या रमयत्यातुरं जगत् ॥ ३९ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे व्यासनारदसंवादे षष्ठोऽध्यायः ॥। ६ ॥




#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!