Bhishma Stuti under Shrimad Bhagwat Mahapuran lyrics

SOORAJ KRISHNA SHASTRI
0
bhishma_pitamah
bhishma pitamah in mahabharat battle


श्री भीष्म उवाच -

इति मतिरुपकल्पिता वितृष्णा
भगवति सात्वत पुङ्गवे विभूम्नि ।
स्वसुखमुपगते क्वचिद्विहर्तुं 
प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥३२॥

त्रिभुवनकमनं तमालवर्णं 
रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं 
विजयसखे रतिरस्तु मेऽनवद्या ॥३३॥

युधि तुरगरजोविधूम्रविष्वक्
कचलुलितश्रमवार्यलंकृतास्ये ।
मम निशितशरैर्विभिद्यमान-
त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥३४॥

सपदि सखिवचो निशम्य मध्ये
निजपरयोर्बलयो रथं निवेश्य ।
स्थितवति परसैनिकायुरक्ष्णा
हृतवति पार्थ सखे रतिर्ममास्तु ॥३५॥

व्यवहित पृथनामुखं निरीक्ष्य
स्वजनवधाद्विमुखस्य दोषबुद्ध्या।
कुमतिमहरदात्मविद्यया य
श्चरणरतिः परमस्य तस्य मेऽस्तु ॥३६॥

स्वनिगममपहाय मत्प्रतिज्ञा
मृतमधिकर्तुमवप्लुतो रथस्थः ।
धृतरथचरणोऽभ्ययाच्चलद्गु
र्हरिरिव हन्तुमिभं गतोत्तरीयः ॥३७॥

शितविशिखहतोविशीर्णदंशः
क्षतजपरिप्लुत आततायिनो मे ।
प्रसभमभिससार मद्वधार्थं
स भवतु मे भगवान् गतिर्मुकुन्दः ॥३८॥

विजयरथकुटुम्ब आत्ततोत्रे
धृतहयरश्मिनि तच्छ्रियेक्षणीये।
भगवति रतिरस्तु मे मुमूर्षो
र्यमिह निरीक्ष्य हताः गताः सरूपम् ॥३९॥

ललित गति विलास वल्गुहास
प्रणय निरीक्षण कल्पितोरुमानाः ।
कृतमनुकृतवत्य उन्मदान्धाः
प्रकृतिमगन् किल यस्य गोपवध्वः ॥४०॥

मुनिगणनृपवर्यसंकुलेऽन्तः
 सदसि युधिष्ठिरराजसूय एषाम् ।
अर्हणमुपपेद ईक्षणीयो
मम दृशि गोचर एष आविरात्मा ॥४१॥

तमिममहमजं शरीरभाजां
हृदिहृदिधिष्ठितमात्मकल्पितानाम् ।
प्रतिदृशमिव नैकधाऽर्कमेकं
समधिगतोऽस्मि विधूतभेदमोहः ॥४२॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top