अर्वाचीनकाले संस्कृतसाहित्यस्य विज्ञानविषयाणां प्रयोगस्यावश्यकता

SOORAJ KRISHNA SHASTRI
By -
sanskrit_research
modern sanskrit research


   ललितगतिविलासविलसितासंस्कृतभाषा अतीव सारगर्भिणी, वैज्ञानिकीभाषा अस्ति । यावन्ति ज्ञानविज्ञानानि सन्ति तानि सर्वाणि संस्कृतसाहित्ये निबद्धानि सन्ति । सर्वासां विज्ञानपद्धतीनां जनयित्री इयमेकाकी भाषा अस्ति । वैदिकसाहित्यादारभ्य लौकिकसाहित्यपर्यन्तं वैज्ञानिकतायाः प्रभावः अस्यां भाषायां सर्वत्र दरीदृश्यते । परञ्च अर्वाचीनकाले संस्कृतसाहित्यस्य विज्ञानविषयाणांप्रयोगस्यभावः अस्ति। संस्कृतभाषा केवलं कर्मकाण्डीभाषा नास्ति । जनाः एवं मन्यन्ते यत् केवलं पाण्डित्यप्रदर्शनाय अथवा कर्मकाण्डे एव अस्याःभाषायाः प्रयोगः भवति परञ्चैतत् समीचीनन्नास्ति। सम्पूर्णे संस्कृतवाङ्ग्मये कर्मकाण्डसम्बन्धिमन्त्राणां संख्या (1%) एकप्रतिशतमेवास्ति (99%) नवनवतिप्रतिशतमन्त्राः ज्ञानविज्ञानविषयकाः एव व्यवस्थिताः सन्ति । [1] वैदिके उत् वा लौकिके ,सर्वत्र ज्ञानविज्ञानयोः सुसमन्वयः परिदृश्यते। संस्कृताऽभावे जनाः असंस्कृताः भविष्यन्तीति निश्चप्रचम् । संस्कृतभाषा सहस्राब्दात् प्रागैव अस्य देशस्य राष्ट्रभाषा अस्ति । अत्रोपलब्धानि सर्वाधिकानि पुस्तकानि संस्कृतमयान्येव सन्ति ।इयं भाषा प्राचीनकाले अस्य राष्ट्रस्य निवासिनां क्रियाकलापस्य भाषा आसीत् । अस्य देशस्य सभ्यतासंस्कृतिश्च अस्यां पवित्रतमायां धारायां निरन्तरं प्रवर्तमाना अस्ति । अस्मात् कारणात् इयं भाषा कदापि मृता नैव भविष्यतीति निश्चप्रचम् । यथा स्वपुत्रेण मातृपरित्यागः भवति तथैव आङ्ग्लशिक्षणपद्धत्यामपि सदैव अस्याः वैज्ञानिकी भाषायाः उपेक्षा अभवत् । परञ्चापि अस्मिन्नेव देशे काले-काले भारतीयसुपुत्राः धरायां अवतीर्य संस्कृतभाषायाः उद्धारणाय प्रयासं कृतवन्तः तथा च अद्य तु एवं अस्ति यत् सम्पूर्णे विश्वे अस्याः मान्यता अस्ति । पाश्चात्याः अपि अधुना संस्कृतस्य वैज्ञानिकतां स्वीकुर्वन्ति । सकलविश्वस्य प्राचीनतमायां भाषायां संस्कृतस्य सर्वोच्चस्थानमस्ति । विश्वसाहित्यस्य प्रथमः ग्रन्थः ऋग्वेदः ,अस्य भाषा संस्कृत एवास्ति । सम्पूर्णा भारतीयसंस्कृतिः ,परम्परा तथा च महत्त्वपूर्णा नि वैज्ञानिकगूढतत्वानि अस्यां भाषायामेव निहिताः सन्ति । अमरभाषा अमरवाणीं वा अज्ञात्वा भारतीयसंस्कृतेः महत्तां, ज्ञानं विज्ञानञ्च ज्ञातुं न कोऽपि समर्थाः भविष्यन्तीति निश्चप्रचम् । देशविदेशस्य मूर्धन्यविद्वांसः अपि संस्कृतेः अनौपम्यं तथा च ज्ञानविज्ञानसमन्वितं विपुलसाहित्यं दृष्ट्वा चकित-चकिताः अभवन् । बहुभिः विद्वद्भिः वैज्ञानिकरीत्या अस्याध्ययनं अकुर्वन् तथा च गहनगवेषणां कृत्वा अस्याः वैज्ञानिकतायाः प्रमाणानि प्रस्तुतवन्तः । विश्वस्य प्राचीनतमाभाषा संस्कृतभाषा अस्ति तथा च इयं भाषा सर्वोत्तमा भाषापि वर्तते । समस्त भारतीयभाषाणां योगिनी इयमेकाकी भाषा अस्ति । अद्यापि भारतस्य सर्वासु भाषासु संस्कृतभाषा वात्सल्यमयीजननिरूपिणी वर्तते।  
अर्वाचीने संस्कृतसम्बद्धानि अद्भुतानि ततथ्यानि 
1. सङ्गणक प्रयोगे सर्वोत्तमा भाषा संस्कृतभाषा अस्ति । -फोर्ब्सपत्रिका 1987 
2.सर्वोत्तमः पञ्चाङ्गः/ कैलेण्डर वा भारतीयपञ्चाङ्गः एव। (यस्मिन् नूतनवर्षः सौरप्रणाल्याधारितः अस्ति तथा च भू-वैज्ञानिकपरिवर्तनेन सार्धं प्रवर्तनं भवति ।) -जर्मन स्टेट युनिवर्सिटी 
3.औषधीनां प्रयोगे सर्वोपयोगी भाषापि संस्कृत एव । संस्कृतोच्चारणमात्रेण जनाः रोगविमुक्ताः भवन्ति तथा च मधुमेह , कफवातपित्तादिदोषात् सर्वथा विमुक्ताः भवन्ति । संस्कृतभा षायां वार्ता लापेन अपि मानवशरीरस्य तंत्रिकातन्त्रः सक्रियरूपेण कार्यं करोति यस्मात् व्यक्तेः शरीरं सकारात्मकावेशेन(positive Charges) सक्रियाः भवन्ति । - अमेरिकन हिन्दू युनिवर्सिटी(शोधोपरान्ते) 
4. संस्कृतभाषा एतादृशी भाषा अस्ति या स्वग्रन्थान् यथा वेदोपनिषदाः ,श्रुतिस्मृतिपुराणादयः सर्वे ग्रन्थाः उन्नत्याः प्रौद्योगिक्याः(Technology) प्रदर्शनं कुर्वन्ति । रशियन स्टेट युनिवर्सिटी ,नासादयः 
5. रूस,जर्मन,जापान,अमेरिकादेशस्य प्रबुद्धाः विद्वांसः सक्रियरूपेण अस्माकं देशस्य पवि त्र ग्रन्थेषु यानि प्रमुखानि सिद्धान्तानि आसन् तान् अचोरयित्वा स्वनाम्नैव आविष्कारस्य सिद्धिं कुर्वन् सन्ति । विश्वस्य सप्तदशाधिकराष्ट्रे एकं उत वा एकाधिकेषु संस्कृतविश्वविद्यालयेषु छात्राः अध्ययने,शोधे च निरताः सन्ति तथा च नूतनप्रौद्योगिक्याः विस्तारेऽपि ते प्रयासरताः सन्ति । 
6. संस्कृतभाषा समग्रासु भाषासु जननी अस्ति । सर्वासां भाषाणां प्रत्यक्षेण परोक्षेण वा अस्यामेव भाषायाः 97% शब्दाः दरीदृश्यन्ते । U.N.O. 
7. समग्रे विश्वे अनुवादस्योद्देश्यानां पूर्त्यर्थं उपलब्धा सर्वोत्तमा भाषा संस्कृत भाषा अस्ति । फोर्ब्स पत्रिका 1985  
   एवं सिद्धं भवति यत् संस्कृतभाषा पूर्णरूपेण वैज्ञानिकी भाषा अस्ति । भारतीयाः तु स्वीकुर्वन्ति एव , वैदेशिकाः अपि अस्याः भाषायाः वैज्ञानिकतां स्वीकुर्वन्ति । संस्कृतभाषायां लिखितसाहित्यस्य प्रचुरता संस्कृतभाषायां लिखितसाहित्यस्य प्रचुरता दृश्यते । ऋगादिवेदाः , उपनिषदादिवेदाङ्गानि , न्यायवैषेशिकादिदर्शनग्रन्थाः , महाभारताग्न्यादेतिहासपुराणानि, रघुवंशकादम्बर्यादिलौकिकसाहित्यग्रन्थाः लिखिताः सन्ति । एवं यदातः अहं पश्यामि तत्र तु लिखितसंस्कृतसाहित्यस्यैव प्राचुर्यमस्ति । वैदिके उत् वा लौकिके सर्वत्र ज्ञानविज्ञानविषयस्यैव परिचर्चा अस्ति । अर्वाचीनलिखितसाहित्यस्यापि न्यूनता नास्ति । अस्मिन् समयेऽपि लेखकाः , कवयः वा संस्कृतकाव्यानि, महाकाव्यानि निबन्धग्रन्थाः रचिताः सन्ति । एतस्मादपि संस्कृतभाषा आधुनिककाले निष्प्रयोजिका इव प्रतिभाति । समाजे जनानां व्यवहारे नास्ति । अस्य निष्प्रयोजकतायाः कारणमस्ति –प्रायोगिकतायाः अभावः । येन पदार्थेन जनानां नित्यक्रियायाः सहजभावेन आपूर्तिः भवति तस्यैव पदार्थस्य समाजे आवश्यकता भवति तथा च अप्रयोज्यपदार्थाः निष्प्रयोजकाः भवन्ति । आधुनिककाले आङ्लभाषायाः प्रयोगः सर्वत्र भवति अस्मात् तस्याः महत्त्वं जनैः दीयन्ते यद्यत् इयं भाषा वैज्ञानिकी नास्ति । संस्कृतभाषा वैज्ञानिकी भाषा भूत्वापि महत्त्वहीनमिव प्रतिभाति । अस्य कारणमस्ति –प्रयोगस्य अभावः । अस्मात् लेखनस्यपेक्षया प्रयोगस्यावश्यकतास्ति । आधुनिकसमाजे अस्याः प्रतिष्ठा कथं भविष्यति अस्मिन्विषयेऽनुसंधानस्यावश्यकतास्ति । संस्कृते यावन्ति ज्ञानविज्ञानानि सन्ति तेषां प्रयोगं कथं भवेत् ,अस्मिन् क्षेत्रे शोधकार्यस्यावस्यकता वर्तते । पुस्तकीयज्ञानस्यपेक्षया व्यावहारिकज्ञानस्यप्राधान्यं भवति ।एवमपि नास्ति यत् प्राचीनकाले भारतीयानां जीवने वैज्ञानिकतायाः अभावः आसीत् ,ते पूर्णरूपेणवैज्ञानिकपद्धत्यानुसारमेव कार्याणि कुर्वन्नासन् ,परञ्च कालान्तरे दौर्भाग्येन तेषां ज्ञान-विज्ञानस्य ह्रासो अभवत् । तेषां ज्ञानविज्ञानस्य पुनर्जीवनाय प्रयासं आवश्यकम्  
संस्कृतसाहित्येविज्ञानविषयाः 
1. भाषाविज्ञानम् – 
  संस्कृतसाहित्ये भाषाविज्ञानस्य या संरचना दृश्यते सा कुत्रापि न दृश्यते । व्याकरणदृष्ट्या पाणिनीयव्याकरणस्य प्रभावः अधुना सर्वत्र संस्कृतवाङ्गमये अस्ति । महाप्राज्ञपाणिनिः स्वस्मिन् काले प्रचलिता संस्कृतभाषायाः गहनगवेषणां कृत्वा वैज्ञानिकरूपं प्रदत्तवान् । आङ्गलवर्णमालायां A तः Z पर्यन्तवर्णानां स्थापने न कोऽपि वैज्ञानिकतास्ति यत् कथं एफ(F) इति वर्णस्य पूर्वे ई (E)कथमागच्छति? यदृच्छया तेषां स्थापनं ते कृतवन्तः । अपरे ,संस्कृतभाषायां पाणिनिना चतुर्दशमाहेश्वरसूत्राणां स्थापनं अतीववैज्ञानिकरूपेण, तार्किकरूपेण व्यवस्थापितवान् यस्याञ्च क्रमबद्धताविषये ध्वनीनां गूढावलोकनं विद्यते । उदाहरणतया, स्वराणां स्थापनं (अ,आ,इ,ई,उ,ऊ,ए,ऐ,ओ,औ इत्यादयः) मुखाकृत्याधारेण व्यवस्थापिताः सन्ति यथा, अ,आ वर्णस्योच्चारणं कण्ठाद्भवति तथा च इ,ई वर्णस्योच्चारणं ताल्वस्थानाद्भवति । एवं व्यञ्जनानां स्थापनमपि वैज्ञाकतापूर्णमस्ति । 
2. दर्शनविज्ञानम्- 
  सामान्यतया विद्वद्भिः परम्परागतषड्भारतीयदर्शनानि तथा च गैर-परम्परागते त्रीणि दर्शनानि सन्ति । यस्मिन् , न्यायवैशेषिकसांख्ययोगपूर्वमीमांसोत्तरमीमांसा चैतानि षड् परम्परागतानि तथा च बौद्धजैनचार्वाकादि त्रीणि गैर-परम्परागतानि भारतीयदर्शनानि सन्ति । न्यायदर्शने तर्कशास्त्रीयसिद्धान्तानां प्राचुर्यमस्ति । वैशेषिके परमाण्वादिनां विशदविवेचनं वर्तते । सृष्टिसिद्धान्तस्य निरूपणं सांख्यशास्त्रे अस्ति । योगदर्शनं शारीरिकं तथा च मानसिकं अवस्थां प्रस्तौति । पूर्वोत्तरमीमांसायां आध्यात्मिकतायाः विशदविवेचनमस्ति । एवञ्च बौद्धादीनि अवैदिकदर्शनान्यपि जगतः यथार्थस्वरूपं वैज्ञानिकरूपेण वर्णयन्ति ।भारतीयज्ञान- विज्ञानस्य अयमेकं रूपम् , यस्मिन् वैज्ञानिकविषयाणां विशदविवेचनं वर्तते ।दशमलवप्रणाल्याः अन्वेषणं प्राचीनगणनाक्षेत्रस्येका महत्त्वपूर्णा उपलब्धिरासीत्। दशमलवप्रणाल्यां संख्यापदं यूरोपिनां मते अरबदेशीया अस्ति किञ्च आश्चर्यमस्ति यत् अरबदेशीयाः जनाः भारतीयानां संख्या मन्यन्ते ।वास्तवमिदमस्ति यत् उर्दू,फारसी तथा च अरबीलिपिः दक्षिणतः आरभ्यते । कोऽपि यदा कथयति – 257 इति संख्यां लिखतु । तदा स तु वामतः एव लिखति । एवं स्पष्टं भवति यत् संख्याः तु तस्याःभाषायाःएव अस्ति यस्य लेखनं वामतः एव भवति । अधुना तु स्पष्टमस्ति यत् याः संख्याः प्राचीनकालतः भारते एव आसीत् कालान्तरे अरबादिदेशीयाः ग्रहीतवन्तः । गणनासम्बन्धि एकमपरमद्धरणमस्ति यत् सर्वे जानन्ति एव चीनदेशस्य प्राचीनप्रान्तमासीत् रोमप्रान्तः ,यस्मिन् सभ्यताद्वयमासीत् – सिजर तथा च अगस्तस । तस्यां सभ्यतायां यदा को ऽपि एकलक्षसंख्यां लेखयितुं कथयति तदा सः प्रसन्नो भूत्वा एम(M) लिखति ।अस्यार्थः भवति -मिलेनियम ।रोमनसंख्यायां एतदुपरि न कोऽपि संख्या अस्ति प्रत्युत भारतीयगणनाशा स्त्रे एकलक्षसंख्यानिरूपणावसरे सकृत् संख्यानन्तरं षड् शून्यस्य प्रयोगः भवति । रोमनगणनाशास्त्रे शून्यस्यभावः अस्ति । शून्य इति प्राचीनभारतीयानामन्वेषणं अस्ति । यस्याभावे न कोऽपि विकासः संभवति ।1,00,000 इति संख्यायाः भारतीयसंख्याशास्त्रे एकलक्षमितिप्रवदन्ति । शतलक्षस्य कोटिः , शतकोट्याः अर्बुदम्, शतार्बुदस्य खर्बुदम्, शतखर्बुदस्य नीलम्,शतनीलस्य पद्मम्, शतपद्मस्य शंखम्,शतशंखस्य महाशंखं भवति ।अतस्तु महाशंख एवं संख्या अस्ति यस्मिन् एक संख्यानन्तरं एकोनविंशशून्यानां प्रयोगः भवति। प्रत्युत रोमनगणनाशास्त्रे एवं व्यवस्था नास्ति । अग्निपुराणानुसारं चतुर्युगानि भवन्ति-सत्यत्रेता द्वापरकलियुगमिति । कलिरायुः 4,32,000 इति अस्ति । तस्य द्विगुणं द्वापरम्,त्रिगुणं त्रेता,चतुर्गुणं सतयुगमिति भवति । एतानि चतुर्युगानि सन्ति ।एकसप्तति युगानां समूहः मन्वन्तरस्य भवति । चतुर्दशमन्वन्तरस्य भवति कल्पः ।एवमस्माकं प्राचीनाचार्यैः प्रयासं कृत्वा कल्पा न्तवर्षाणां गणना कृताः यस्य सङ्कल्पे अद्यापि प्रयोगः भवति । आर्यभट्टीयगणितशास्त्रेऽपि आचार्य आर्यभट्टेन बीजगणितम्, अङ्कगणितम्, प्रमेयसमीकरणादिविषये प्रतिपादनं कृतः । पाई इत्यस्य वास्तविकं मानं भवति - (3.14159) यः आर्यभट्टप्रतिपादितं 3.14159 मानस्य सादृश्यमस्ति । आर्यभट्टस्य इयं प्रक्रिया ग्रीकयूनानिनः ततश्च अरबवासिनः अङ्गीकृताः ।एवमासीत् अस्माकं गणनाविज्ञानम् । 
4. खगोलशास्त्रम् – 
  प्राचीनभारते आर्यभट्टेन प्रतिपादितं यत् पृथ्वी स्वस्य अक्षेन परिभ्रमति । भारतीयज्योति षशास्त्रे सिद्धान्तज्योतिषमस्ति यस्मिन् खगो लविज्ञानस्य महानसिद्धान्ताः सन्ति । ग्रहनक्षत्रादिसमूहानां विशद चर्चा तत्र वर्तते । प्राचीनकालस्य एकः अपरः महान् गणितज्ञः ,खगोलशास्त्रज्ञः आसीत् - ब्रह्मगुप्तः , यः खगोलीयावलोकनसंस्थान , उज्जैन्याः प्रमुखः आचार्यः आसीत् । तस्मिन्नेव काले आचार्य वराहमिहिर इति नामकः अपरः खगोलशास्त्री आसीत् ,यः गुरुत्वाकर्षणसिद्धान्तस्य स्थापनं कृतवान् । श्रीमद्भागवतस्य पञ्चमे स्कन्धेऽपि खगोलीयविज्ञानस्य महान् चर्चा वर्तते ,यस्मिन् गिरिनद्यु पवर्णनं,अतलवितलसुतलरसातलतलातलमहातलपातालाधःतललोकानां तथा च भूर्भुवःस्वर्महर्जनःतपसत्यञ्चोपरिलोकानां चेत्यादिचतुर्दशलोकानां विशदविवेचनं अस्ति । एवमासीत् अस्माकं खगोलविज्ञानमथवा ज्योतिषशास्त्रम् । 
5. औषधिविज्ञानम् – 
  प्राचीनभारतीयचिकित्साक्षेत्रे नामद्वयं प्रसिद्धं विश्रुतञ्चास्ति ,आचार्य चरकः तथा च आचार्य सुश्रुतः । भारतीयशल्यचिकित्सायाः पितामहः आचार्य सुश्रुतः अस्ति यः Plastic surgery इत्यस्याविष्कारकः आसीत् । तेन स्वस्मिन्नेव ग्रन्थे सुश्रुतसंहितायां शल्यक्रियाणां तथा च औषधीनां विस्तृतं विचारणा प्रस्तूयते एवञ्च शल्यचिकित्सायां प्रजोज्यमाणयन्त्राणामपि विशदविवेचनं क्रियते यस्य दर्शनं Google मध्येऽपि कर्तुं शक्यते । सुश्रुतानुसारं सम्यक् चिकित्सा हेतवे शारीरिकसंरचनायाः ज्ञा नं परमावश्यकम् । आचार्य चरकलिखितचरकसंहितायामपि आयुर्वेदस्य महान् सिद्धान्तानि प्रयोक्तानि सन्ति । औषधीनां आन्तरिकप्रभावोपर्यपि महान् विचाराः प्रस्तूयते । सुश्रुत तथा च चरकसंहिता द्वावपि संस्कृतभाषायामेव स्तः ।अत्रेकमुल्लेखनीयं तथ्यमस्ति यत् लंदनविज्ञानसंग्रहालयस्य एकं तलं औषधेः सम्बद्धमस्ति । अत्र प्राचीनभारते औषधिक्षेत्रे अभूत् विचाराणामुपरि तथा च तस्मिन् कालस्य या उपलब्धिरासीत्  तस्योपरि प्रकाशः कृतः यस्मिन् आचार्यसुश्रुतेन प्रयुक्तः प्राचीनशल्यचिकित्सकीय यन्त्राणामुल्लेखः अस्ति । वैद्यकशास्त्रे आयुर्वेदस्य अष्टाङ्गानि निरूपितानि सन्ति - कायबालभ्रहोर्ध्वाङ्ग शल्यदंष्ट्रा जराविषैः । एतैरष्टभिरङ्गैश्च वैद्यकं ख्यातमष्टधा ॥ (वैद्यकशास्त्र) अर्थात् – 1.कायचिकित्सा 2. बालचिकित्सा 3. भूतचिकित्सा 4. ऊर्ध्वाङ्गचिकित्सा 5. शल्यचिकित्सा 6. विषचिकित्सा 7. रसायनचिकित्सा 8. वाजीकरणचिकित्सा, इत्यष्टचिकित्सापद्धतिः प्राचीनभारते आसीत् । अस्यार्थः अपि तत्र प्रतिपादितमस्ति , यथा – जठरस्यानलः कायो बालो बालचिकित्सितम् । ग्रहोभूतादिवित्रास ऊर्ध्वाङ्गमूर्ध्वशोधनम् ॥ शल्यं लौहादि दंष्ट्रा हेर्जरापि च रसायनम् । वृषः पोषः शरीरस्य व्याख्याष्टङ्गस्यलेशतः ॥ (वैद्यकशास्त्र) कायः अर्थात् जठराग्नेः विकारात् ये रोगाः सम्भवन्ति तस्य निवारणं कायचिकित्सा भवति । बालेषु ये रोगाः समुद्भवन्ति तस्य निवारणं बालचिकित्सान्तर्गते भवति । भूतपिशाचादीनामुपद्रवाणां शमनार्थं भूतचिकित्सा भवति । ग्रीवादुपरि श्रोत्रचक्षुमुखनासिकाशिरादीनां रोगाणां निवारणं ऊर्ध्वाङ्गचिकित्सया भवति । अस्थिसंयोजनं विच्छेदनादिक्रिया शल्यचिकित्सान्तर्गते आयाति । वृद्धावस्थादूरीकरणार्थे तथा च युवा वस्थां अक्षुण्णरूपेणनिर्धारणाय ये उपायाः ते रसायनान्तर्गते आयान्ति । चिरकालस्त्रीसङ्गाद्यु पायः वाजीकरणम् । एवं आयुर्वेदस्याष्टाङ्गानि अतीवमहत्त्वपूर्णानि सन्ति । अथर्ववेदे त्रिंशदधिक सूक्तानि आयुर्वेदसम्बद्धानि सन्ति, यथा – 1. जलचिकित्सा(4.57) 2. औषधिसूक्त(4.59) 3. दीर्घायुष्यसूक्त(5.28,30) 4. अक्षिरोगसूक्त(6.16) 5. यक्ष्मनाशनसूक्त(6.20) 6. कुष्ठौषधिसूक्त(6.95) 7. चिकित्सासूक्त(6.96) 8. ज्वरनाशनसूक्तेत्यादिः (7.20) । एवं भारतीयानां प्राचीनचिकित्साप्रणाली अतीवविकसिता आसीत् इति निश्चप्रचम् । तासां पद्धतीनामुद्धारणार्थे एतादृशी व्यवस्था करणीया यदियं पद्धतिः पुनर्जीविता भवेत् । 
6. यन्त्रविज्ञानम् – 
  अभियान्त्रिकीक्षेत्रेऽपि आस्माकं पूर्वजानां महत्तरं योगदानं अस्ति ।अस्य प्रमाणानि दक्षिणभारतीयमन्दिराणां दर्शने एव प्रतिभाति । तञ्जौर , त्रिची , मदुरै , खजुराहो इत्यादीनि मन्दिराणि अभियान्त्रिकी पद्धत्याः समुद्घाटनङ्करोति । एवमपि जनश्रुतिः अस्ति यत् षष्टमशताब्द्यां कर्णाटके आइहोलनामके स्थाने एकं संस्थानमासीत् यत्र अभियान्त्रिक्यां प्रयोज्यमाण अनेकानि यन्त्राणि आसन् । प्रयागराजे एव महामुनि भरद्वाजस्य आश्रमः अस्ति । महामुनेः एकः ग्रन्थः अस्ति , यस्य ना म अस्ति – यन्त्रसर्वस्वम् । तस्मिन् ग्रन्थेऽपि यन्त्रविज्ञानस्य महान् वर्णनम् अस्ति । अयं ग्रन्थः अपि संस्कृतभाषायामेव अस्ति ।आग्नेयवायव्यजृम्भणेत्याद अस्त्रशस्त्राणां निर्वचनमपि वेदेषु, पुराणेषु,एवञ्च अन्यान्यसंस्कृतग्रन्थेष्वपि प्राप्यन्ते । एवं प्राचीनभारते अभियान्त्रिकी पद्धतिरपि विकसिता आसीत् । 
7. रसायनविज्ञानम् – 
  रसायनविज्ञानं विज्ञानस्य सा शाखास्ति यत्र प्रकृतेः विद्यमानपदार्थानां रसानाञ्च बृहदध्ययनं क्रियते । (Chemistry is a branch of science where study the defferent types of Elements enisisted in the Nature). प्राचीनभारतीय ग्रन्थेषु यथा –अथर्ववेदः , आचार्य चरकस्य चरकसंहिता ,आचार्यवराहमिहिरस्य बृहत्संहिता, नागार्जुनस्य रसरत्नाकरसिद्धान्तः ,रसरत्नसमुच्चयः इत्यादि रसायनशास्त्रपरकग्रन्थाः सन्ति यस्मिन् रसशास्त्रस्य महान् विवरणं प्राप्यते । एवं चान्यानि प्राचीनवैज्ञानिकपद्धतिरासीत् यस्मिन् विज्ञा नविषयाणां विशदविवेचनमासीत् अस्ति वा । एतादृशी वैज्ञानिकीव्यवस्थायाः परं न कोऽपि व्यवस्था । जन्मनात्प्राक्तः मृत्युपर्यन्तव्यवस्थायाः वैज्ञानि कनिर्धारणं अस्यामेव भाषायामस्ति । यदत्र अस्यां भाषायां नास्ति स तु कुत्रापि नास्ति । इतः परं न कोऽपि कर्त्तुं शक्यते ,न कोऽपि अभवत् ,न कोऽपि भविता । ॥ नेह नानास्ति किंचन ॥ ॥ न भूतो न भविष्यति ॥ 
संस्कृतसाहित्ये प्रयोगस्य क्षेत्राणि
  संस्कृतसाहित्ये प्रयोगस्य नैकानि क्षेत्राणि सन्ति यस्मिन् अर्वाचीनपद्धत्या अनुसंधानस्य आवश्यकता अस्ति । वैदिके उत् वा लौकिकसाहित्यक्षेत्रे प्रयोगाय महान् आधारः स्थापितः सन्ति । ते च के ? अस्मिन् विषये मूलतथ्यानि अग्राङ्कितानि सन्ति । 
1. वैदिके उत् वा लौकिकसाहित्ये सृष्टि-संरचनायाः निर्माणं तथा च तस्य विकासक्रमविषये प्रयोगाः 
2. वैदिके उत् वा लौकिकसाहित्ये भौतिकविज्ञानं तथा च तस्य प्रयोगाः 
3. वैदिके उत् वा लौकिकसाहित्ये रसायनविज्ञानं, तस्य प्रयोगाः 
4. वैदिके उत् वा लौकिकसाहित्ये प्राणिविज्ञानं, तस्य प्रयोगाः 
5. वैदिके उत् वा लौकिकसाहित्ये परमाणुविज्ञानं,तस्य प्रयोगाः 
6. वैदिके उत् वा लौकिकसाहित्ये गणनाविज्ञानं, तस्य प्रयोगाः 
7. वैदिके उत् वा लौकिकसाहित्ये खगोलविज्ञानं ,तस्य प्रयोगाः 
8. वैदिके उत् वा लौकिकसाहित्ये औषधिविज्ञानं, तस्य प्रयोगाः 
9. वैदिके उत् वा लौकिकसाहित्ये यन्त्रविज्ञानं ,तस्य प्रयोगाः 
10. वैदिके उत् वा लौकिकसाहित्ये चिकित्साविज्ञानं, तस्य प्रयोगाः 
11. वैदिके उत् वा लौकिकसाहित्ये मनोविज्ञानं , तस्य प्रयोगाः 
12. वैदिके उत् वा लौकिकसाहित्ये योगविज्ञानं , तस्य प्रयोगाः 
13. वैदिके उत् वा लौकिकसाहित्ये शरीरविज्ञानं ,तस्य प्रयोगाः 
  एवं विधानि अन्यान्यक्षेत्राणि सन्ति यस्मिन् विषये प्रयोगपूर्वकं शोधस्यावश्यकतास्ति । भारतीयपरम्परानुसारं संस्कृतस्य प्रयोगं, तस्याः ज्ञानविज्ञानस्य प्रयोगं, यदा भविष्यति निश्चप्रचं संस्कृतवाङ्गमयस्योद्धारं भविष्यति एवं च समाजे प्रतिजनानां हृदये अस्याः प्रतिष्ठा भविष्यति । बहवः संस्कृतसमुपासकाः एतेषु विषयेषु कार्याणि कुर्वन्न् सन्ति । कृतसङ्कल्पोऽहमस्मि यत् अहमपि एतेषु विषयेषु कतिपयानि क्षेत्राण्यादाय शोधकार्यं करिष्यामि । शोधकार्यं न केवलं उपाध्यर्थं भवति ,इयं तु जीवनपर्यन्तप्रचलिता एका प्रक्रिया अस्ति । अतस्तु सर्वेषां संस्कृतोपासकानां अहं प्रार्थये , यत् अस्मिन् क्षेत्रे पदवर्धनं कृत् शोधकार्यं कुर्वन्तु।
 सन्दर्भः (RIFERENCE)
१. अथर्ववेदभाष्य,सायणाचार्यकृतभाष्ययुत, विश्वबन्धुविश्वेश्वरानन्द वैदिकशोधसंस्थानम् ,होशियारपुर,वि. 2017 
२. जैनपरम्परा में आयुर्वेद का वैशिष्ट्य,डॉ.भवानीशंकर शर्मा,संस्कृतविमर्शः (नवशृङ्खला),अङ्क 11,2016 
३. संस्कृतवाङ्मय में विज्ञान ,पैनल चर्चा, दिल्ली विश्वविद्यालय 09-03-2019 
४. संस्कृतशास्त्रे रसायनविज्ञानम्, डॉ रावूरि गायत्रीमुरलीकृष्णः संस्कृतविमर्शः (नवशृङ्खला),अङ्क 12,2017 
५. पाञ्चाल अमित ,(ब्लॉग)संस्कृत ज्ञान-विज्ञान की भाषा 29 जुलाई 2019 
६. Atharvaveda Samhita, Edited and Revised by K.L.Joshi, Vol.1,2,3, Parimal Publication, Dehli,2000 ७. Ayurvedic concepts in Atharvveda, Mitali संस्कृतविमर्शः (नवशृङ्खला),अङ्क 11,2016 
८. KATZU,MARKANDEYA , SHODH LEKH, VIGYAN KI BHASA KE ROOP ME SANSKRIT; ISSN: 2231-4989

यह भी पढ़ें>>>


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!