आ.सूरजकृष्णशास्त्रिणाविरचितं श्रीगङ्गाष्टकम्

SOORAJ KRISHNA SHASTRI
By -
नारायणस्याम्बुजपादभूता 
कमण्डले स्थापयिता च ब्रह्मा ।
भगीरथस्य सुतपप्रभावै-
रागच्छती भूधरराजस्याङ्के  ।।१।।

यत्रस्थिताऽनङ्गविध्वंसकारी 
विकीर्णकेशाञ्चितशूलधारी ।
तेनधृतस्त्वां निजशीर्षमध्ये 
शिवप्रिया नाम तदा बभूव ।।२।।

शिवस्य केशात् पुनरापतन्ती
सहस्रधारायां विस्फुरन्ती  ।
सगरात्मजानां मुक्तिं भजन्ती
जनान् पुनन्ती भागीरथीयम्  ।।३।।

नमामि गङ्गे ! भवतापहारिणी 
विहारिणी पङ्कजवासतोये ।
मकरोपरिस्थितिगा शोभमानो-
द्यतकान्तिरूपं चन्द्रांशुभीरिव ।।४।।

भजामि त्वाऽहं सुमुनीन्द्रसेविजा
स्वर्गाङ्गणादागमनञ्च मङ्गलम् ।
हिमाद्रिजा तव सुविशालकीर्तिः
पुरन्दरीच्युतमर्त्ये वसानम्  ।।५।।

यदा यदाऽहं पश्यामि रूप-
मुद्वेलितो मम हृदयं सदैव। 
त्वं नववधूरिव लसिता नवीना
प्रतिक्षणं विहरति नाऽवतिष्ठति ।।६।।

मातुस्तवाञ्चलमध्ये वसामि
सुखञ्च शान्तिञ्चाप्यनुभवामि ।
जानामि नाऽहं महिमानमेव-
मुद्भावयित्री त्वमेव भावान्   ।।७।।

कृपां कुरुत्वं भो देवि गङ्गे !
क्षमापयतु विमले ! मेऽपराधः ।
देहान्तकाले  तव दर्शकामः
पार्श्वेस्थितः त्वामिति मे मतिर्स्यात् ।।८।।

।। आ.सूरजकृष्णशास्त्रिणाविरचितं श्रीगङ्गाष्टकम्  ।।













#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!