संस्कृत गीत
वर्षासमये मधुरं दृश्यम् ।
जनजीवनं तु अस्तव्यस्तम् ।।
(1)
मेघ: वर्षति कोकिल मौनम्
दर्दुरकण्ठध्वनिः अतिचित्रम् ।
क्षेत्रे-क्षेत्रे जलसञ्चरणम्
जनजीवनं तु अस्तव्यस्तम् ।।१॥
(2)
कृषक: मुदित: अहमपि मुदितः
विद्यालयेऽवकाशो जात: ।
बालैः साकं जले विहरणम्
जनजीवनं तु अस्तव्यस्तम् ।।२॥
रचनाकारः- सूरज कृष्ण शास्त्री
sooraj krishna shastri |
thanks for a lovly feedback